भोजने भीमसेनस्य पापः प्राक्षिपयद्विषम्। कालकूटं नवं तीक्ष्णं संभृतं रोमहर्षणम्
तज्जीर्णमविकारेण सहान्नेन जनार्दन। सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्। बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत्
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः
आशीविषैः कृष्णसर्पैः सुप्तंचैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्। सारथिं चास्य दयितमपहस्तेन जघ्निवान्
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते। शयानानार्यया सार्धं को नु तत्कर्तुमर्हति
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्। महद्व्यसनमापन्ना शिखिना परिवारिता
हा हतास्मि कुंतोन्वद्य भवेच्छान्तिरिहानलात्। अनाथा विनशिष्यामि बालकैः पुत्रकैः सह
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः। आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः
वैनतेयो यथा पक्षी गरुत्मान्पततांवरः। तथैवाभिपतिष्यामि भयंवो नेह विद्यते
आर्यामङ्केन वामेन राजानं दक्षिणेन च। अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्। भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात्
ते रात्रौ प्रस्थितां सर्वे सह मात्रा यशस्विनः। अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात्
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः। सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी
सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ। हृच्छयेनाभिभूतात्मा भीमसेनमकामयत्
भीमस्य पादौ कृत्वा तु स्वउत्सङ्गे ततोऽबला। पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना
तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः। पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते
एवमुक्ता तु भीमेन राक्षसी कामरूपिणी। भीमसेनं महात्मानमाह चैवमनिन्दिता
पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान्। आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम्
अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः। नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम्
तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः। भीमरूपो महानादान्विसृजन्भीमदर्शनः
केन सार्धं कथयसि आनयैनं ममान्तिकम्। हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि
सा कृपासंगृहीतेन हृदयेन मनस्विनी। नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः। अभ्यद्रवत वेगेन भीमसेनं तदा किल
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली। अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्। संहत्य भीमसेनाय व्याक्षिपत्सहसा करम्
गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा। नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः। सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव
विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ। निजघान महावीर्यस्तं तदा निर्बलं बली