सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन। ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो। धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी
स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता। एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि
राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता। दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः
दासीभावेन मां भोक्तुमीष्सुते मधुसूदन। जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः। स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात्
गर्हयेपाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्। यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम्
धिग्बलं भीमसेनस्य धिक्पार्थस् च गाण्डिवम्। यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा। यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता। प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः
आत्मा हि जायेत तस्यां तस्मज्जाया भवत्युत। भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे
नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन। ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः
पञ्चभिः पतिभिर्जाताः कुमासरा मे महौजसः। एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः
कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमा। प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः। किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम्
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा। सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्। अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन
धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम्। यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति
य एतानाक्षिपद्राष्टात्सह मात्राऽविहिंसकान्। अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन
भोजने भीमसेनस्य पापः प्राक्षिपयद्विषम्। कालकूटं नवं तीक्ष्णं संभृतं रोमहर्षणम्
तज्जीर्णमविकारेण सहान्नेन जनार्दन। सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्। बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत्
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः
आशीविषैः कृष्णसर्पैः सुप्तंचैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्। सारथिं चास्य दयितमपहस्तेन जघ्निवान्
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते। शयानानार्यया सार्धं को नु तत्कर्तुमर्हति
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्। महद्व्यसनमापन्ना शिखिना परिवारिता
हा हतास्मि कुंतोन्वद्य भवेच्छान्तिरिहानलात्। अनाथा विनशिष्यामि बालकैः पुत्रकैः सह
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः। आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः