नैवं परे नापरे वा करिष्यन्ति कृतानि वा। यानि कर्माणि देव त्वं बाल एव महाबलः
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्। वैराजभवने चापि ब्रह्मणा न्यवसः सह
एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः। तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते। यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्। काले लोकमिमं प्राप्तौ नरनारायणावृषी
अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च। नावयोरन्तरं शक्यं वेदितुं भरतर्षभ
इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं वचः। प्रीयमाणो हृषीकेशस्तूष्णीं तत्र बभूव सः
एवमुक्ते तु वचने केशेवेन महात्मना। तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता। पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह। अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी
वासुदेव हृषीकेश वासवावरजाच्युत। देवदेवोसि देवानामिति द्वैपायनोऽब्रवीत्
पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम्। स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत्
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन। यष्टात्वमसि त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत्
ऋषयस्त्वां क्षमामाहुः सत्यं च परुषोत्तम। सत्याद्यज्ञोसि संभूतः कश्यपस्त्वां यथाऽब्रवीत्
साध्यानामपि देवानां शिवानामीश्वरेश्वर। लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत्
ब्रह्मशंकरशक्राद्यैर्देववृन्दैः पुनः पुनः। क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव
द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवीप्रभो। जठरे खमिमे लोकाः पुरुषोसि सनातनः
विद्यातपोभितप्तानां तपसा भावितात्मनाम्। आत्मदर्शनतृप्तानामृषीणामसि सत्तमः
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्। सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ। त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे
लोकपालाश्च लोकाश्च नक्षत्राणि दिशे दश। नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम्
मंर्त्यता चैव भूतानाममरत्वं दिवौकसाम्। त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम्
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन। ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो। धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी
स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता। एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि
राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता। दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः
दासीभावेन मां भोक्तुमीष्सुते मधुसूदन। जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः। स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात्
गर्हयेपाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्। यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम्
धिग्बलं भीमसेनस्य धिक्पार्थस् च गाण्डिवम्। यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा। यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता। प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः