ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन। अतिष्ठ एकपादेन वायुभक्षः शतं समाः
कृष्णाजिनोत्तरासङ्गः कृशो धमनिसंततः। आसीः कृष्ण सरस्वत्यां सत्रेद्वादशवार्षिके
प्रभासमप्यथासाद्य तीर्थं पुण्यजनार्चितम्। तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम्
आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः। लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत्
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशवं। निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः
योगकर्ता हृषीकेशः सांख्यकर्ता सनातनः। शीलस्त्वं सर्वयोगानां करणं नियमस्य च
निहत्य नरकं भौममाहृत्य मणिकुण्डले। प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः
कृत्वातत्कर्म लोकानामृषभः सर्वलोकजित्। अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान्
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः। मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव
स त्वं नारायणो भूत्वा हरिरासीः परंतप। ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः। अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम
तुरायणादिभिर्देव क्रतुभिर्भूरदक्षिणैः। अयजो भूरितेजा वै कृष्ण चैत्ररथे वने
शतं शतसहस्राणि सुवर्णस्य जनार्दन। एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान्
अदितेरपि पुत्रत्वमेत्य यादवनन्दन। त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः
शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप। त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा
संप्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः। अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा
प्रादुर्भावसहस्रेषु तेषुतेषु त्वया विभो। अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः
सादिता मौखाः पाशा निशुम्भनरकौ हतौ। कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति
जारूथ्यामाहुतिः क्राथः शिशुपालो नृपैः सह। जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा। अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणे
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्। हतः सौभपतिः साल्वस्त्वया सौभं च पातितम्
एवमेते युधि हता भूयश्चान्याञ्शृमुष्व ह। इरावत्यां हतो भोजः कार्तवीर्यसमो युधि। गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन। द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन। त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा। आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत
युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन। आत्मनैवात्मसात्कृत्वा जगदासीः परंतप
युगादौ तव वार्ष्णेय नाभिपद्मादजायत। ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्। तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः। ललाटाज्जातवाञ्शंभुः शूलपाणिस्त्रिलोचनः
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ। त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत्
तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः। इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने