तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः। भीमं प्रशस्याथ गुणैरनेकै- र्हृष्टास्ततो द्वैतवनाय जग्मुः
एवं विनिहतः सङ्ख्ये किर्मोरो मनुजाधिप। भीमेन वचनात्तस् धर्मराजस्य कौरव
ततो निष्कष्टकं कृत्वा वनं तदयराजितः। द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः। प्रहृष्टमनसः प्रीत्या प्रसशंसुर्वृकोदरम्
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः। विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम्
स मया गच्छता मार्गे विनिकीर्णो भयावहः। वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः
तत्राश्रौषमहं चैतत्कर्म भीमस् भारत। ब्राह्मणानां कथयतां ये तत्रासन्समागताः
एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम्। श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह। पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने
पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः। केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः
वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः। गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन्
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः। परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्। अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत्
दुर्योधनस्य कर्णस् शकुनेश्च दुरात्मनः। दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्
एतान्निहत्य समरे ये च तेषां पदानुगाः। तांश्च सर्वान्विनिर्जित्य सहितान्स नराधिपान्
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्। निकृत्याऽभिचरन्वध्य एष धर्मः सनातनः
पार्तानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्। अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः। कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः। प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः
दशवर्षसहस्राणि यत्रसायंगृहो मुनिः। व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने
दशवर्षसहस्राणि दशवर्षशतानि च। पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन। अतिष्ठ एकपादेन वायुभक्षः शतं समाः
कृष्णाजिनोत्तरासङ्गः कृशो धमनिसंततः। आसीः कृष्ण सरस्वत्यां सत्रेद्वादशवार्षिके
प्रभासमप्यथासाद्य तीर्थं पुण्यजनार्चितम्। तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम्
आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः। लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत्
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशवं। निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः
योगकर्ता हृषीकेशः सांख्यकर्ता सनातनः। शीलस्त्वं सर्वयोगानां करणं नियमस्य च
निहत्य नरकं भौममाहृत्य मणिकुण्डले। प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः
कृत्वातत्कर्म लोकानामृषभः सर्वलोकजित्। अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान्
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः। मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव
स त्वं नारायणो भूत्वा हरिरासीः परंतप। ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः