दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्। हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः
अथवा य उपाध्यायः क्रतोस्तस्य भविष्यति। सर्पसत्रविधानज्ञो राजकार्यहिते रतः
तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति। तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः। तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति
अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः। अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम्
सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा। अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्। वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः
स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः। प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः। जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यति
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः। स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे। यज्ञविघ्नं करिष्यामो दक्षिणा दीयतामिति
वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम्। अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः। अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः
दशामस्तं प्रगृह्याशु कृतपेवं भविष्यति। छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति
एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः। अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम्
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम्। वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान्
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः। सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते
किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत्। श्रेयः प्रसादनं मन्ये कश्यपश्य महात्मनः
ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः। न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हिवः
मया हीदं विधातव्यं भवतां यद्धितं भवेत्। अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ
सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च। वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्
प्रागेव दर्शिता बुद्धिर्मयैषा भुजगोत्तमाः। हेयेति यदि वो बुद्धिस्तवापि च तथा प्रभो
अस्तु कामं मभाद्यापि बुद्धिः स्मरणमागता। तां शृणुध्वं प्रवक्ष्यामि याथातथ्येन पन्नगाः
न स यज्ञो न भविता न स राजा तथाविधः। जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम्
दैवेनोपहतो राजन्यो भवेदिह पूरुषः। स दैवमेवाश्रयेत नान्यत्तत्र परायणम्
तदिदं चैवमस्माकं भयं पन्नगसत्तमाः। दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा। मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः। देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो
शापदुःखाग्नितप्तानां पन्नगानामनामयम्। कृपया परयाऽऽविष्टाः प्रार्थयन्तो दिवौकसः
का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह। ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह। इच्छाम एतद्विज्ञातुं कारणं यन्न वारिता