एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः। नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्
ततो भीमो महाबाहुरारुज्यतरसा द्रुमम्। दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्। निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः
निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम्। अभिद्रुत्याब्रवीद्वाक्यं तिष्ठतिष्ठेति भारत
इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः। निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली। तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि। पातयामास वेगेन कुलिशं मघवानिव
असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत। चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव
तदुदस्तमलातं तु भीमः प्रहरतां वरः। पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत्
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्। दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्। वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा
शीर्षयोः पतिता वृक्षा विभिदुर्नैकधा तयोः। यथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा
मूर्ध्निजर्झरभूतास्तु बहवस्तत्र पादपाः। चीराणीव व्युदस्तानि रेजुस्तत्र महावने
तद्वृक्षयुद्धमभवन्महूर्तं भरतर्षभ। राक्षसानां च मुख्यस्य नराणामुत्तमस्य च
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः। प्राहिणोद्रासः क्रुद्धो भीमसेनश्चचाल ह
तं शिलाताडनजडं पर्यधावत राक्षसः। बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम्
तावन्योन्यं समाश्लिश्य प्रकर्षन्तौ परस्परम्। उभावपि चकाशेते प्रवृद्धौ वृषभाविव
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः। नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः। कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः
अभिहत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः। मातङ्गमिव मातङ्गः प्रभिननकरटामुखम्
स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यबान्। तमाक्षिपद्भीमसेनो बलेन बलिनां वरः
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा। शब्दः समभवद्घोरो वेणुस्फोटसमो युधि
अथैनमाक्षिप्य बलाद्गृद्य मध्ये वृकोदरः। धूनयामास वेगेन वायुश्चण्ड इव द्रुमम्
स भीमेन परामृष्टो दुर्बलो बलिनां रणे। व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम्
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः। योक्रयामास बाहुभ्यां पशुं रशनया यथा
विनदन्तं महानादं भिन्नभिरीस्वनं बली। भ्रामयामास सुचिरं विस्फुरन्तमचेतसम्
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः। प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत्
आक्रम्य च कटीदेशे जानुना राक्षसाधमम्। पीडयामास पाणिभ्यां तस्य कण्ठंवृकोदरः
अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्बणम्। भूतले भ्रामयामास वाक्यं चेदमुवाच ह
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्। करिष्यसि गतश्चापि यमस्य सदनं प्रति
इत्येवमुक्त्वा पुरुषप्रवीर- स्तं राक्षसं क्रोधपरीतचेताः। विस्रस्तवस्त्राभरणं स्फुरन्त- मुद्धान्तचित्तं व्यसुमुत्ससर्ज