विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः। इन्द्रियाणि प्रसक्तानि विषयेषु यथारतिम्
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्। रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्। स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः
काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत। तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्। प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्
अहं वकस्य वै भ्राता किर्मीर इति विश्रुतः। वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्। के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम्। युधि निर्जित्यवः सर्वान्भक्षयिष्ये गतज्वरः
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः। आचचक्षे ततः सर्वं गोत्रनामादि भारत
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः। सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः। वनमभ्यागतो घोरमिदं तव परिग्रहम्
विस्मयं परमं गत्वा राक्षसो घोरदर्शनः।' किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम। उपपादितमद्येह चिरकालान्मनोरथम्
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः। चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम्
सोयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्। अनेन हि मम भ्राता बको विनिहतः प्रियः
वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा। विद्याबलमुपाश्रित्य न ह्मस्त्यस्यौरसं बलम्
हिडिम्बश्च सखा मह्मं दयितो वनगोचरः। हतो दुरात्मनाऽनेन स्वसा चास्य हृता पुरा
सोयमभ्यागतो मूढो ममेदं गहनं वनम्। प्रचारसमयेऽस्माकमर्द्धरात्रे स्थिते समे
अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम्। तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च। शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम्
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै। अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्। संभक्ष्य जरयिष्यामि यथाऽगस्त्यो महासुरम्
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः। नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम्
ततो भीमो महाबाहुरारुज्यतरसा द्रुमम्। दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्। निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः
निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम्। अभिद्रुत्याब्रवीद्वाक्यं तिष्ठतिष्ठेति भारत
इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः। निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली। तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि। पातयामास वेगेन कुलिशं मघवानिव
असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत। चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव
तदुदस्तमलातं तु भीमः प्रहरतां वरः। पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत्
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्। दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्। वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा