सविलक्षस्तु राजेन्द्रो दुर्योधनपिता तदा। मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः। एष ते विदुरः सर्वमाख्यास्यति गते मयि
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्। किर्मीरवधसंविग्नो भयं दुर्योधनो ययौ
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्। रक्षसा भीमसेनस्य कथमासीत्समागमः
शृणु भीमस्य कर्मेदमतिमानषकर्मणः। श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः। जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्
रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप। प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम्
तद्वनं तापसा नित्यमशेषा वनचारिणः। दूरात्परिहरन्ति स्म पुरुषादभयात्किल
तेषां प्रविशतां तत्र मार्गमावृत्य भारत। दीप्ताक्षं भीषणं रक्षः मोल्मुकं प्रत्यपद्यत
बाहू महान्तौ कृत्वा च तथास्यं च भयानकम्। स्थितमावृत्यपन्थानं येन यान्ति कुरूद्वहाः
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्। सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम्
सृजन्तं राक्षसीं मायां महानादनिनादितम्। मुञ्चन्तं विपुलान्नादान्सतोयमिव तोयदम्
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम्। विमुक्तनादाः संपेतुः स्थलजा जलजैः सह
संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्। तद्वनं तस्य नादेन संप्रस्थितमिवाभवत्
तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः। विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान्
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः। रजसा संवृतं तेन नष्टर्क्षमभवन्नभः
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः। पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्। आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः
तं समासाद्य वित्रस्ता कृष्णा कमललोचना। अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा। पञ्चपर्वतमध्यस्था नदीवाकुलतां गता
विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः। इन्द्रियाणि प्रसक्तानि विषयेषु यथारतिम्
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्। रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्। स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः
काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत। तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्। प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्
अहं वकस्य वै भ्राता किर्मीर इति विश्रुतः। वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्। के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम्। युधि निर्जित्यवः सर्वान्भक्षयिष्ये गतज्वरः
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः। आचचक्षे ततः सर्वं गोत्रनामादि भारत
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः। सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः। वनमभ्यागतो घोरमिदं तव परिग्रहम्