एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत। पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः
कृत्वाऽर्ध्याद्याः क्रियाः सर्वा विश्रान्तं मुनिसत्तमम् प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले। कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः। कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्। यदृच्छया धर्मराजं दृष्ट्ववान्काम्यके वने
तं जटाजिनसंवीतं तपोवननिवासिनम्। समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो
तत्राश्रौषं महाराज पुत्राणां तव विग्रहम्। अनयं द्यूतरूपेण महाभयमुपस्थितम्
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ।। सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति। यदन्योन्येन ते पुत्रा विरुध्यन्ते कथंचन
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्। किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन। तेन न भ्राजसे राजंस्तापसानां समागमे
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्। उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृपिः
दुर्योधन महाबाहो निबोध वदतां वर। वचनं मे महाभाग ब्रुवतो यद्धितं तव
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः। पाण्डवानां कुरूणां च लोकस्य च नरर्षभ
पाण्डवान्प्राप्य तान्रात्रौ किर्मीरो नाम राक्षसः। अवृत्य मार्गं रौद्रात्मा तस्थौ गिरिवाचलः
तं भीमः समरस्लाघी बलेन बलिनां वरः। जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा
पश्य दिग्विजये राजन्यथा भीमेन पातितः। जरासन्धो महेष्वासो नागायुतबलो युधि
संबन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः। ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः
सर्वे नागायुतप्राणा वज्रसंहनना दृढः। सत्यव्रतधराः सर्वेसर्वे पुरुषमानिनः
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्। हिडिम्बबकमुख्यानां किर्मीरस् च रक्षसः। कस्तान्युधि समासीत जरामरणवान्नरः
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ। कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशांपते। ऊरुं करिकराकारं करेणाभिजघान तः
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्। नकिंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः
तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्। दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः। विधिना संप्रयुक्तश्च शापायास्य मनो दधे
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः। मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि। तस्मादस्यातिमानस्य सद्यः फलमवाप्स्यसि
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्। यत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः। प्रसादयामास मुनिं नैतदेवं भवेदिति
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा। शायो न भविता तात विपरीते भविष्यति