प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः। प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्
भगवन्नाहमप्येतद्रोचये द्यूतसंभवम्। मन्ये तद्विधिनाऽऽकृष्य कारितोस्मीति वै मुने
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च। गान्धार्या नेष्यते द्यूतं तत्र मोहात्प्रवर्तितम्
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्। पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्। दृढं विझः परं पुत्रं परं पुत्रान्न विद्यते
इन्द्रोप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः। अन्यैः समृद्धैरप्यर्थैर्न सुतानमन्यते परम्
अत्र ते वर्तयिष्यामि गहदाख्यानमुत्तमम्। सुरभ्याश्चैव संवादमिन्द्रस्य च विशांपते
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल। गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्। मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप। अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्। प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्। निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप
एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप।' कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम
एकस्तत्रबलोपेतो धुरमुद्वहतेऽधिकाम्। अपरोप्यबलप्राणः कृशो धमनिसंततः। कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः। नैव शक्नोति तं भारमुद्वोढुं पश्य वासव
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता। अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने। किं कृपायितवत्यत्र पुत्र एको निपीड्यते
यदि पुत्रसहस्राणि सर्वत्रसमतैव मे। दीनस्य तु सतः शक्र पुत्रस्याभ्यधिकाकृपा
तदिन्द्रः सुरभेर्वाक्यं निशम्य भृशविस्मितः। जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्
प्रववर्ष च तत्रैव सहसा तोयमुल्वणम्। कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा। सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक। विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम्
चिराय तव पुत्राणां शतमेकश्च भारत। पाण्डौः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाःसुदुःखिताः
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि। इति दीनेषु पार्थेषु मनो मे परितप्यते
यदि पार्थिव कौख्याञ्जीवमानानिहेच्छसि। दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः
एवमेतन्महाप्राज्ञ यथा वदसि मां मुने। अहं चैव विजानामि सर्वे चेमे नराधिपाः
भवांश्च मन्यते साधु यत्कुरूणां सुखोदयम्। तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने
यदित्वहमनुग्राह्यः कौरव्येषु दया यदि। अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम
अयमायाति वै राजन्मैत्रेयो भगवानृषिः। अन्वीक्ष्य पाण्डवान्भ्रातृनिहैवाऽस्मद्दिदृक्षया
एष दुर्योधनं पुत्रं तव राजन्महानृषिः। अनुशास्ता यथान्यायं शमायास्य कुलस्य च
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया। अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा