एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः
उपलभ्य ततः कर्णो विवृत्य नयने शुभे। रोषाद्दुःशासनं चैव सौबलं च तमेव च
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना। अथो मम मतं यत्तु तन्निबोधत भूमिपाः
प्रियं सर्वे करिष्यामो राज्ञः किं करवामहे। न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः। गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान्
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्। निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम्
यावदेव परिद्यूना यावच्छोकपरायणाः। यावन्मित्रविहीनाश्च तावद्गच्छाम माचिरम्
तस्यतद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः। प्रहृष्टमनसः सर्वे प्रत्यूचुः सूतजं तदा
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक्। निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः। आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः। प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्
भगवन्नाहमप्येतद्रोचये द्यूतसंभवम्। मन्ये तद्विधिनाऽऽकृष्य कारितोस्मीति वै मुने
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च। गान्धार्या नेष्यते द्यूतं तत्र मोहात्प्रवर्तितम्
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्। पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्। दृढं विझः परं पुत्रं परं पुत्रान्न विद्यते
इन्द्रोप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः। अन्यैः समृद्धैरप्यर्थैर्न सुतानमन्यते परम्
अत्र ते वर्तयिष्यामि गहदाख्यानमुत्तमम्। सुरभ्याश्चैव संवादमिन्द्रस्य च विशांपते
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल। गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्। मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप। अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्। प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्। निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप
एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप।' कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम
एकस्तत्रबलोपेतो धुरमुद्वहतेऽधिकाम्। अपरोप्यबलप्राणः कृशो धमनिसंततः। कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः। नैव शक्नोति तं भारमुद्वोढुं पश्य वासव
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता। अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने। किं कृपायितवत्यत्र पुत्र एको निपीड्यते
यदि पुत्रसहस्राणि सर्वत्रसमतैव मे। दीनस्य तु सतः शक्र पुत्रस्याभ्यधिकाकृपा
तदिन्द्रः सुरभेर्वाक्यं निशम्य भृशविस्मितः। जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम्
प्रववर्ष च तत्रैव सहसा तोयमुल्वणम्। कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा। सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा