न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन। व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्। न जह्माज्जीवितं प्राज्ञ तं गच्छानय संजय
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च। संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः। रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः। भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरंदरम्
युधिष्ठिरमुपागम्य पूजयामास संजयः। भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे
राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः। शशंसागमने हेतुमिदं चैवाब्रवीद्वचः
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः। तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम्
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्। नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम्
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः। युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः। दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ
अद्य चाहं दिवारात्रौ त्वत्कृते भरतर्षभ। प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः
सोङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह। क्षम्यतामिति चोवाचयदुक्तोसि मयाऽनघ
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्। तथाऽहमागतः शीघ्रं त्वद्दर्शनपरायणः
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतनाः। दीनानुकम्पिनो राजन्नात्र कार्या विचारणा
पाण्डोः पुत्रा यादृशास्ते तादृशा मे सुतास्तव। दीना इतीव मे बुद्धिरभिपन्नाऽद्य तान्प्रति
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती। विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्। धृताराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः
स सौबलेयमानाय्य कर्णदुःशासनौ तथा। अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः। विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति। पाण्डवानयने तावन्मन्त्रयध्वं हितं मम
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन। पुनः शोषं गमिष्यामि निरसुर्निष्परिग्रहः
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्। करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे
किं बालिशमतिं राजन्नास्थितोसि विशांपते। गतास्ते समयं कृत्वा नैतदेवं भविष्यति
सत्यवाक्येः स्विताः सर्वे पाण्डवा भरतषभ। पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचिति
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्। निरस्य समयं सर्वे पणोऽस्माकं भविष्यति
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः। छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः
एवमेतन्महाप्राज्ञ यथा वदसि मातुल। नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्। ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये
[नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम्। आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय ।।]