समाश्वस्तं विदुरं ते नरर्षभा- स्ततोऽपृच्छन्नागमनाय हेतुम्। स चापि तेभ्यो विस्तरतः शशंस यथावृत्तं धृतराष्ट्रेऽम्बिकेये
अवोचन्मां धृतराष्ट्रोऽभिगुप्त- मजातशत्रो परिगृह्याभिपूज्य। एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि
मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव। तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च शुतवानाम्बिकेयः। यथाऽऽतुरस्येव हि पथ्यमौपधं न रोचनते स्मास्य तदुच्यमानम्
न श्रेयसे यततेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा। ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति। यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन्
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यस्मिञ्श्रद्धा तव तत्र प्रयाहि। नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा
सोहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र। तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः
क्लेशैस्तीर्व्रर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः। संवर्धयन्स्तोकमिवाग्रिमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव
यस्याविभक्तं वसु राजन्सहायै- स्तस्य दुःखस्यांशभाजः सहायाः। सहायानामेष संग्रगणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः
सत्यं श्रेष्टं पाण्डवा निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः। आत्मा चैषामग्रतो नातिवर्ते देवं वृत्तिर्वर्धते भूमिपाल
एवं करिष्यामि यथा ब्रवीपि परां बुद्धिमुपगम्याप्रमत्तः। यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम्
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति। धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत दुर्मनाः
[विदुरस्य प्रभावं च सन्धिविग्रहकारितम्। विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति ।।]
स सभाद्वारमागम्य विदुरस्मारमोहितः। समक्षं पार्थिवेनद्राणां विसंज्ञः प्रापतद्भुवि
स तु लब्ध्वा चिरात्संज्ञां समुत्थाय महीतलात्। समीपोपस्थितं राजा संजयं वाक्यमब्रवीत्
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः। तस्य स्मृत्याऽद्य सुभृशं हृदयं दीर्यतीवमे
तमानय स्वधर्मज्ञं मम भ्रातरमाशु वै। इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्
पश्चात्तापाभिसंतप्तो विदुरस्मारमोहितः। भ्रातृश्नेहादिदं राजा संजयं वाक्यमब्रवीत्
गच्छ संजय जानीहि भ्रातरं विदुरं मम। यदि जीवति रोषेण मया पापेन निर्धुतः
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन। व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्। न जह्माज्जीवितं प्राज्ञ तं गच्छानय संजय
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च। संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः। रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः। भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरंदरम्
युधिष्ठिरमुपागम्य पूजयामास संजयः। भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे
राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः। शशंसागमने हेतुमिदं चैवाब्रवीद्वचः
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः। तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम्
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्। नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम्
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः। युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्