दुर्योधनं त्वहितं वै निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये। `ध्रुवं विनाशस्तव पुत्रेण धीमन् सबन्धुवर्गेण सहैव राजभिः
चतुर्दशे चैव वर्षे नरेन्द्र कुलक्षयं प्राप्स्यसि राजसिंह। तस्मात्कुरुष्वाधिपत्ये नरेन्द्र युधिष्ठिरं धर्मभृतां वरिष्ठम्
अजातशत्रुर्हि विमुक्तरागो धर्मोणेमां पृथिवीं शास्तु राजन्। ततो राजन्पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः
दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रान्भजन्तु। दुःशासनो याचतु भीमसेनं सभामध्ये द्रुपदस्यात्मजां च
युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य। त्वया पृष्टः किमहमन्यद्वदेय- मेतत्कृत्वा कृतकृत्योसि राजन्
एतद्वाक्यं विदुर यत्ते सभाया- मिह प्रोक्तं पाण्डवान्प्राप्य मां च। हितं तेषामहितं मामकाना- मेतत्सर्वं मम नावैदि चेतः
इदं त्विदानीं गत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ। तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम्
असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रमूतः। स्वं वै देहं परहेतोस्त्यजेति कोनु ब्रूयात्समतामन्ववेक्षन्
स मां जिह्मं विदुर सर्वं ब्रवीपि मन्युं तेऽहमधिकं धारयामि। यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाऽप्यसती स्त्री जहाति
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य- दन्तर्वेश्म सहसोत्थाय राजन्। नेदमस्तीत्यथ विदुरो भापमाप्पः संप्राद्रवद्यत्र पार्था बभूवुः
पाण्डवास्तु वने वासमुद्दिश्य भरतर्पभाः। प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः
सरस्वतीदृपद्वत्यौ यमुनां च निषेव्य ते। ययुर्वननैव वनं सततं पश्चिमां दिशम्
ततः सरस्वतीकूले समेषु मरुधन्वसु। काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम्
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे। अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत
विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः। जगामैकरथेनैव काम्यकं वनमृद्धिमत्
ततो गत्वा विदुरः काम्यकं त- च्छीघ्रैरश्वैर्वाहितः स्यन्दनेन। ददर्शासीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च
ततोऽपश्यद्विदुरं तूर्णमारा- दभ्यायान्तं सत्यसन्धः स राजा। अथाब्रवीद्धातरं भीमसेनं किंनु क्षत्ता वक्ष्यतिनः समेत्य
कच्चिन्नायं वचनात्सौबलस्य समाह्वातुं देवनायोपयाति। कच्चित्क्षुद्रः कुशली चाऽयुधानि जेष्यत्यस्माकं पुनरेवाक्षवत्याम्
समाहूतः केनचिदाहवाय नाहं शक्तो भीमसेनापयातुम्। गाण्डीवे च संशयिते कथं नु राज्यप्राप्तिः संशयिता भवेन्नः
तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव। तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात्
समाश्वस्तं विदुरं ते नरर्षभा- स्ततोऽपृच्छन्नागमनाय हेतुम्। स चापि तेभ्यो विस्तरतः शशंस यथावृत्तं धृतराष्ट्रेऽम्बिकेये
अवोचन्मां धृतराष्ट्रोऽभिगुप्त- मजातशत्रो परिगृह्याभिपूज्य। एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि
मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव। तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च शुतवानाम्बिकेयः। यथाऽऽतुरस्येव हि पथ्यमौपधं न रोचनते स्मास्य तदुच्यमानम्
न श्रेयसे यततेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा। ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति। यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन्
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यस्मिञ्श्रद्धा तव तत्र प्रयाहि। नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा
सोहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र। तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः
क्लेशैस्तीर्व्रर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः। संवर्धयन्स्तोकमिवाग्रिमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव
यस्याविभक्तं वसु राजन्सहायै- स्तस्य दुःखस्यांशभाजः सहायाः। सहायानामेष संग्रगणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः