भूताश्रयो भूतपति- सर्वभूतनिषेवितः। `मणिः सुवर्णो भूतात्मा कामदः सर्वतोमुखः।' [स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।] जयो विशालो वरदः सर्वधातुनिषेचिता
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः। धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः
द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः। स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्
देवकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः। चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः। नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना
शक्राच्च नारदः प्राप्तो धौम्यश्च तदन्तरम्। धौम्याद्युधिष्ठरः प्राप्य सर्वान्कमानवाप्तवान्
सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम्। वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम्
सूर्योदये यः सुसमाहितः पठे- त्त पुत्रदारान्धनरत्नसंचयान्। लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान्
[इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः। स मुच्यते शोकदवाग्निसागरा- ल्लभेत कामान्मनसा यथेप्सितान्
[इमं स्तवं प्रयतमनाः समाधिना पछेदिहान्योऽपि वरं समर्थयन्। तत्त्स्य दद्याच्च रविर्मनीषितं तदाऽऽप्नुयाद्यद्यपि तत्सुदुर्लभम्
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः। पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्। विद्यार्थी लभते विद्यां पुरुषोप्यथवा स्त्रियः
उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि। आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात्
संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु। मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति ।।]
वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः। धर्मात्मानं विदुरमगाधबुद्धिं
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्मं च त्वं परमं वेत्थ सूक्ष्मम्। समश्च त्वं संमतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि
एवं गते विदुरयदद्य कार्यं पौराश्चेमे कथमस्मान्भजेरन्। ते चाप्यस्मान्नोद्धरेयुः समूला- न्न कामये तांश्च विनश्यमानान्
सौबलेनैव पापेन दुर्योधनहितैषिणा। क्रूरमाचरितं क्षत्तर्न मे प्रियमनुष्ठितम्
तथैवाङ्गीकृते तत्र तद्भवान्वक्तुमर्हति। उत्तरं प्राप्तकालं च किमन्यन्मन्यते क्षमम्
नास्ति धर्मे सहायत्वमिति मे दीर्यते मनः। यत्र पाण्डुसुताः सर्वे क्लिश्यन्ति वानमागताः
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति। धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च
स वै ध्रमो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः। आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते
एतस्य ते दुष्प्रणीतस्य राज- न्द्वेषस्याहं परिपश्याम्युपायम्। यथा पुत्रस्तव कौरव्य पापा- न्मुक्तो लोके प्रतितिष्ठेत साधु
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नतिसृष्टं त्वयाऽऽसीत्। एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृद्ध्येत्
[यशो ने नश्येज्ज्ञातिभेदश्च न स्या- द्धर्मो न स्यान्नैव चैवं कृते त्वाम्।] एतत्कार्ये तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः
एवं शेषं यदि पुत्रेषु ते स्या- देतद्राजंस्त्वरमाणः कुरुष्व। अथैतदेवं न करोषि राजन् ध्रुवं कुरूणां भविता विनाशः
नहि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके। येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम्
येषां भीमो बाहुशाली च योद्धा तेषां लोके किंनु न प्राप्यमस्ति। उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम्
पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत्त्वं चकर्थ। इदानीं ते हितमुक्तं न चेत्त्व- मेवं कर्ता परितप्ताऽसि पश्चात्
यद्येतदेवमनुमन्ता सुतस्ते संप्रीयमाणः पाण्डवैरेकराज्यम्। तापो न ते भविता प्रीतियोगा- त्त्वं चेन्न गृह्णासि सुतं सहायैः