न तेषामापदः सन्ति नाधयो व्याधयस्तथा। ये तवानन्यमनसा कुर्वन्त्यर्चनवन्दनम्
सर्वरोगैर्विरहिताः सर्वपापाविवर्जिताः। त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः। अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि
येच तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः। माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान्
क्षुभया सहिता मैत्री याश्चान्या भूतमातरः। ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ।।]
कण्ठदघ्ने जले स्थित्वा मन्त्रैः स्तोत्रैश्च तोषितः। ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्। दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः
यत्तेऽभिलषितं किंचित्तत्त्वं सर्वमवाप्स्यसि। अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप। यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत
फलमूलामिषं शाकं संस्कृतं यन्महानसे। चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति। इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्। जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे
द्रौपद्या सह-संगम्य पश्यमानोऽपयात्प्राभुः। महानसे तदान्नं तु साधयामास पाण्डवः
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्। अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान्
भुक्तवत्सु च विप्रेषु भोजयित्वाऽनुजानपि। शेषं विघससंज्ञं तुपश्चाद्भुङ्क्ते युधिष्ठिरः
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती। [द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ।।]
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः। कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु। इज्यार्थे संप्रवर्तन्ते विधिमन्त्रप्रमाणतः
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः। द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम्
पुष्पोपहारबलिभिर्बहुशश्च यथाविधि। सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः
स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः। विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम्
मयि स्नेहोऽस्ति चेद्ब्रह्मन्यद्यनुग्रहभागहम्। भगवन्नास्ति चेद्गुद्यं तच्च मे ब्रूहि सांप्रतम्
शृणुष्वांवहितो राजञ्शुचिर्भूत्वा समाहितः। क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम्
धौम्येन तु यथाप्रोक्तं पार्थाय सुमहात्मने। नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते
सूर्योऽर्यभा भगस्त्वष्टा पूषाऽर्कः सविता रविः। गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्। सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः। ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः। धर्मध्वजो वेदकर्ता वेगाङ्गो वेदवाहनः
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः। कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः। पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः
लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः। वरुणः सागरोंशश्च जीमूतो जीवनोऽरिहा