यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम्। तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः
मनूनां मनुपुत्राणां जगतोऽमानवस्य च। मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः
संहारकाले संप्राप्ते तव क्रोधविनिःसृतः। संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते
त्वद्दीधितिसमुत्पन्ना नानावर्ण महाघनाः। सैरावताः साशनयः कुर्वन्त्याभूतसंप्लवम्
कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः। संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः। त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्मशाश्वतं
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः। विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः। मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः। आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे
सप्तम्यागथवा षष्ठ्यां भक्त्या पूजां करोति यः। अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम्
न तेषामापदः सन्ति नाधयो व्याधयस्तथा। ये तवानन्यमनसा कुर्वन्त्यर्चनवन्दनम्
सर्वरोगैर्विरहिताः सर्वपापाविवर्जिताः। त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः। अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि
येच तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः। माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान्
क्षुभया सहिता मैत्री याश्चान्या भूतमातरः। ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ।।]
कण्ठदघ्ने जले स्थित्वा मन्त्रैः स्तोत्रैश्च तोषितः। ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्। दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः
यत्तेऽभिलषितं किंचित्तत्त्वं सर्वमवाप्स्यसि। अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप। यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत
फलमूलामिषं शाकं संस्कृतं यन्महानसे। चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति। इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्। जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे
द्रौपद्या सह-संगम्य पश्यमानोऽपयात्प्राभुः। महानसे तदान्नं तु साधयामास पाण्डवः
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम्। अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान्
भुक्तवत्सु च विप्रेषु भोजयित्वाऽनुजानपि। शेषं विघससंज्ञं तुपश्चाद्भुङ्क्ते युधिष्ठिरः
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती। [द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ।।]
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः। कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु। इज्यार्थे संप्रवर्तन्ते विधिमन्त्रप्रमाणतः
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः। द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम्
पुष्पोपहारबलिभिर्बहुशश्च यथाविधि। सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः
स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः। विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम्