गत्वोत्तसयणं तेजो रसानुद्धृत्य रश्मिभिः। दक्षिणायनमावृत्तो महीं वर्षति वारिणा
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीयतिः। रवेस्तेजः समुद्धृत्य जनयामास वारिणा
निषिक्तश्चन्द्रतेजोभिः सूयते जगतो रविः। ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम्। नाथोऽयं सर्वभूतानां तस्मात्तं शरणं व्रज
राजानो हि महात्मानो योनिकर्मविशोधिताः। उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम्
भौमेन कार्तवीर्येण वैन्येन नहुषेण च। तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः। तप आस्थाय धर्मेण द्विजातीन्भर भारत
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः। ततस्त्वध्यापयामास मन्त्रं सर्वार्थसाधकम्। अष्टाक्षरं परं मन्त्रमार्तस्य सततं प्रियम्
[विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः। धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ।।]
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम्। सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत्
गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान्। [शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम्। त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावतां
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम्। अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम्
त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते। त्वयापवित्रीक्रियते निर्व्याजं पाल्यते त्वया
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः। स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चित
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः। सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः। सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वासिद्धिमागताः
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः। दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः। ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम्
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः। वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च। न तद्भूतमहं मन्ये यदर्कादतिरिच्यते
सन्ति चान्यानि सत्वानिवीर्यवन्ति महान्ति च। न तु तेषां तथा दीप्तिः प्रभावो वायथा तव
ज्योतीषित्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः। त्वयिसत्त्वं च सत्त्वं च सर्वेभावाश्च सात्त्विकाः
त्वत्तेजसा कृतंचक्रं सुनाभं विश्वकर्मणा। देवारीणां मदो येन नाशितः शार्ङ्गधन्वना
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम्। सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि
तपन्त्यन्ते दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः। विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः। शीतवातार्दितं लोकं यथा तव मरीचयः
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम्। त्रयाणामपि लोकानां हितायैकः प्रवर्तसे
तव यद्युदयो न स्यादन्धं जगदिदं भवेत्। न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः
आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः। त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः