विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः। विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम्
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्। अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः
यो दद्यादपरिक्लिष्टमन्नमद्वनि वर्तते। श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे। तस्य धर्मं परंप्राहुः कथं वा विप्र मन्यसे
अहो बत महत्कष्टं विपरीतमिदं जगत्। येनापत्रपते साधुरसाधुस्तेन तुष्यति
शिश्नोदरकृतेऽप्राज्ञः करोति विषसं बहु। मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः
ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियैः। विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा। तद्रा प्रादुर्भवत्यषां पूर्वसंकल्पजं मनः
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्। वस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते
ततः संकल्पवीर्येण कामेन विषयेषुभिः। विद्धः पतति लोभाग्नौज्योतिर्लोभात्पतङ्गवत्
ततो दारैर्विहारैश्च मोहितश्च यथेप्सया। महामोहमुखे मग्नो नात्मानमवबुध्यते
एवं पतति संसारे तासुतास्विह योनिषु। अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते। जले भुवि तथाऽऽकाशे जायमानः पुनःपुनः
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु। ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः
तदिदं वेदवचनं कुरु कर्म त्यजेति च। तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः। अलोभ इतिमार्गोऽयं धर्ममस्याष्टविधः स्मृतः
अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः। कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्
उत्तरो देवयानस्तु सद्भिराचरितः सदा। अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्
सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात्। सम्यग्द्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्। सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात्
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः। रागद्वेषविनिर्मुक्ता ऐश्वर्यवशमागताः
रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ। योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्। तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते। तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहम्। तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिः। `प्रणम्य द्विजशार्दूलं पूज्यवाक्यं सुभाषितम्।' पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीषिदम्
प्रस्थिताननुयातारो ब्राह्मणा वेदपारनाः। न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे। कथमत्र मया कार्यं तद्बूहि भगवन्मम
मुहूर्तमिव स ध्यात्वा धर्मेणान्वीक्ष्य तां गतिम्। युधिष्ठिरमुवाचैदं धौम्यो धर्मभृतां वरः
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम्। ततोऽनुकम्पंयां तेषां सविता स्वपिता यथा