राजतः सलिलादग्नेश्चोरतः स्वजनादपि। `अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम्'। भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव
यथा ह्याभिषमाकाशे पक्षिभिः श्वापदैर्भुवि। भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान्
अर्थ एव हि केषांचिदनर्थं भजते नृणाम्। अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः। तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च। अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्
अर्थस्योपार्जने दुःखमार्जितानां च रक्षणे। नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात्
अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः। दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत्
असन्तोषपरा मूढाः संतोषं यान्ति पण्डिताः। अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्। तस्मात्संतोषमेवेह परं पश्यन्ति पण्डितः
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः। ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः
त्यजेत स च यांस्तस्मात्तज्जान्क्लेशान्सहेत च। न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः। अतश्च धार्मिकैः पुम्भिरनीहार्थः प्रशस्यते
धर्मार्थं यस्य वित्तेहा वरं तस्य नरीहता। प्रक्षालनाद्धि पङ्कस्य श्रेयो ह्यस्पर्शनं नृणाम्
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि। धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम। भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे। भरणं पालनं चापि न कुर्यादनुयायिनाम्
संविभागो हि भूतानां सर्वेषामेव दृश्यते। तथैवापचमानेभ्यः प्रदेयं गृहमेधिना
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्। तृषितस्य च पानीयं क्षुधितस्य च भोजनम्
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्। उत्थाय चासनं दद्यादेष धर्मः सनातनः। प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनाम्
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिवान्धवाः। पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः
आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्। न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत्
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि। वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः। विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम्
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्। अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः
यो दद्यादपरिक्लिष्टमन्नमद्वनि वर्तते। श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्
एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे। तस्य धर्मं परंप्राहुः कथं वा विप्र मन्यसे
अहो बत महत्कष्टं विपरीतमिदं जगत्। येनापत्रपते साधुरसाधुस्तेन तुष्यति
शिश्नोदरकृतेऽप्राज्ञः करोति विषसं बहु। मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः
ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियैः। विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा। तद्रा प्रादुर्भवत्यषां पूर्वसंकल्पजं मनः
मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्। वस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते
ततः संकल्पवीर्येण कामेन विषयेषुभिः। विद्धः पतति लोभाग्नौज्योतिर्लोभात्पतङ्गवत्