अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव। स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम्
अनुध्यानेन जप्येन विधास्यामः शिव तव। कथाभिश्चानुकूलाभिः सह रंस्यामहे वने
एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह। न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृत्य भोजिनः। मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्
इत्युक्त्वा नृपतिः शोचन्निषसाद महीतले
तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः। योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत्
शोकस्थानसहस्राणि हर्षस्थानशतानि च। दिवसेदिवसे मूढमाविशन्ति न पण्डितम्
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु। श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम्। श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनेष्वपि। शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा। आत्मव्यवस्थानकरागीताः श्लोका महात्मना
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्। तयोर्व्याससमासाभ्यांशमोपायमिमं शृणु
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्। दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्। आधिव्याधिप्रशमनं क्रियायोगबलेन तु
मतिमन्तो व्यथोपेताः शमं प्रागेव कुर्वते। मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम्
मानसेन हि दुःखेन शरीरमुपतप्यते। अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना। प्रशन्ते मानसे दुःखे शारीरमुपशाम्यति
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते। स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च। शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते
स्नेहात्कारुण्यरागौ च प्रजास्वीर्ष्यादयस्तथा। अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः
कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत्। धर्मार्थिनं तथाऽल्पोपि रागदोषो विनाशयेत्
विप्रयोगे न तु त्यागी दोषदर्शी समागमे। विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात्। स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु। न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्
रागाभिभूतः पुरुषः कामेन परिकृष्यते। इच्छा संजायते तस्य ततस्तृष्णा विवर्धते
तृष्णा हि सर्वपापिष्ठा नित्योद्देगकरी नृणाम्। अधर्मबहुला चैव घोरा पापानुबन्धिनी
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः। योसौ प्राणान्तिको रोगस्तां तृष्णांत्यजतः सुखम्
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्। विनाशयति भूतानि अयोनिज इवानलः
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति। तथाऽकृतात्मा लोभेन सहजेन विनश्यति