राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः। अशेत तां निशांराजन्दुःखशोकसमाहितः
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्। वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः। तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः। फलमूलामिषाहारा वनं यास्याम दुःखिताः
वनं च दोषबहुलं बहुव्यालसरीसृपम्। परिक्लेशश्चवो मन्ये ध्रुवं तत्र भविष्यति
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्। किंपुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः। नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिन
स्नेहकर्माणि भक्तेषु दैवतान्यपि कुर्वते। विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः। सहायविपरिभ्रंशस्त्वयं सादयतीव माम्
आहरेयुर्हि ये सर्वे फलमूलमृगांस्तथा। त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च। दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव। स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम्
अनुध्यानेन जप्येन विधास्यामः शिव तव। कथाभिश्चानुकूलाभिः सह रंस्यामहे वने
एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह। न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृत्य भोजिनः। मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्
इत्युक्त्वा नृपतिः शोचन्निषसाद महीतले
तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः। योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत्
शोकस्थानसहस्राणि हर्षस्थानशतानि च। दिवसेदिवसे मूढमाविशन्ति न पण्डितम्
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु। श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम्। श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनेष्वपि। शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा। आत्मव्यवस्थानकरागीताः श्लोका महात्मना
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्। तयोर्व्याससमासाभ्यांशमोपायमिमं शृणु
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्। दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते
तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्। आधिव्याधिप्रशमनं क्रियायोगबलेन तु
मतिमन्तो व्यथोपेताः शमं प्रागेव कुर्वते। मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम्
मानसेन हि दुःखेन शरीरमुपतप्यते। अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना। प्रशन्ते मानसे दुःखे शारीरमुपशाम्यति
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते। स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च। शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते