नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः। साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः। हीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः
एवमुक्त्वाऽनुजग्मुस्ते पाण्डवांस्तान्समेत्य च। ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान्
क्वगमिष्यथ भद्रंवस्त्यक्त्वाऽस्मान्दुःखभागिनः। वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः। उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ
भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान्। कुराजाघिष्ठिते राज्ये न विनश्येम सर्वशः
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः। शुभाशुभाधिवासेन संसर्गः कुरुते यथा
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा। पुष्पाणामधिवासेन तथा संसर्गजा गुणाः
मोहजालस्य योनिर्हि मूढैरेव समागमः। अहन्यहनि धर्मस्य योनिः साधुसमागमः
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः। सद्भिश्च सह संसर्गः कार्यः शमपरायणैः
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च। ते सेव्यास्तैः समास्याहि शास्त्रेभ्योपि गरीयसी
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु। पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासवात्। धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्। मध्यमैर्मध्यतां याति श्रेष्ठैः श्रेष्ठत्वमाप्नुयुः
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः। ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः। लोकाचारेषु संभूता वेदोक्ताः शिष्टसंमताः
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः। इच्छामो गुणवन्मध्ये वस्तुं श्रेयोभिकाङ्क्षिणः
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः। असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः। नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया
भीष्मः पितामहो राजा विदुरो जननी च मे। सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः। युष्माभिः सहिताः सर्वे शोकसंतापविह्वलाः
निवर्ततागता दूरं ममागमनकाङ्क्षिणः। स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः
एतद्धि मम कार्याणां परमं हृदि संस्थितम्। कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः। चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः। अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान्
निवृत्तेषु तुं पौरेषु रथानास्थाय पाण्डवाः। आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्
ते तं दिषसशेषेण वटं गत्वा तु पाण्डवाः। ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि
उदकेनैव तां रात्रिमृषुस्ते दुःखकर्शिताः। अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः
साग्रयोऽनग्नयश्चैव सशिष्यगणबान्धवाः। स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे। ब्रह्मघोषपुरस्कारः संजल्पः समजायत
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः। आश्वासयन्तो विप्राग्र्याः क्षयां सर्वां व्यनोदयत्