प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय। कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः। वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति
अवृणोत्तत्र पाञ्चाली पाण्डवाना --सताम्। सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्। एतदन्तास्तु भरता यद्व-कृष्णा सभां गता
यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा। पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः। वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः। आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः
तेषां मध्ये महेष्वासो भीमसेनो महाबलः। आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः। गदावेगं च भीमस्य नालं सोढुं नराधिपाः
तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः। कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान्
तथा हि बलवान्राजा जरासन्धो महाद्युतिः। बाहुप्रहरणेनैव भीमेन निहतो युधि
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ। उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया
एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि। एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः
उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः। धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम
श्राविताः परुषा वाचः सृजन्तीर्वैरमुत्तमम्। किमकुर्वत कौरव्या मम पूर्वपितामहाः
कथं चैश्वर्यभूयिष्ठाः सहसा दुःखमेयुषः। वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः
के चैतानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्। किमाचाराः किमाहाराः क्वच वासो महात्मनाम्
कथं द्वादश वर्षाणि वने तेषां महात्मनाम्। व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामनिवर्तिनाम्
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्। पतिव्रता महाभागा सततं प्रियवादिनी
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत। एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन
श्रोतुमिच्छामि तत्सर्वं भूरिद्रविणतेजसाम्। कथ्यमानं त्वया विप्र परं कौतूहलं हि मे
एवं द्यूतजिताः पार्थाः कोयिताश्च दुरात्मभिः। धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्
वर्धमानपुरद्वारादभिनिष्क्रम्य ते तदा। उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया
इन्द्रसेनादयश्चैतान्भृत्याः परिचतुर्दश। रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः
ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत। ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम्
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः। गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्। ऊचुर्वै समयं कृत्वा समागम्य परस्परम्
नेदमस्ति कुलं सर्वं न वयं नच नो गृहाः। यत्रदुर्योधनः पापः सौबलेयेन पालितः। कर्णदुःशासनाद्यैश्च राज्यमेतच्चिकीर्षति
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्। यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति
दुर्योधनो गुरुद्वेषी त्यक्तधर्मः प्रियानृतः। अर्तलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः