वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च। पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव। सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते। अनयो नयसङ्काशो हृदयान्नापसर्पति
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः। उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्। कालस्य बलमेतार्वाद्वपरीतार्थदर्शनम्
आसादितमिदं घोरं तुमुलं रोमहर्षणम्। पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्
अयोनिजां रूपवतीं कुले जातां विभावसोः। को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्
पर्यानयेत्सभामध्ये विना दुर्द्यूतदेविनम्। स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता
एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत। हृतस्वान्हृतराज्यांश्च हृतवस्त्रान्हृतश्रियः
विहीनान्सर्वकामेभ्यो दासभावमुपागतान्। धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे
क्रुद्धां चानर्हतीं कृष्णां दुःखितां कुरुसंसदि। दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी
अपि शेषं भवेदद्य पुत्राणां मम सञ्जय। भरतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः
प्राकोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्। धर्मिष्टां धर्मपत्नीं च रूपयौवनशालिनीम्
प्रजाभिःसह सङ्गम्य ह्यनुशोचन्ति नित्यशः। अग्निहोत्राणि सायाह्ने च चाहूयन्त सर्वशः
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे। आसीन्निष्ठानको घोरो निर्घातश्च महानभूत्
दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत्। अपर्वणि महाघोरं प्रजानां जयन्भयम्
तथैव रथशालासु प्रादुरासीद्धुताशनः। ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः। तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय। कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः। वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति
अवृणोत्तत्र पाञ्चाली पाण्डवाना --सताम्। सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्। एतदन्तास्तु भरता यद्व-कृष्णा सभां गता
यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा। पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः। वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः। आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः
तेषां मध्ये महेष्वासो भीमसेनो महाबलः। आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः। गदावेगं च भीमस्य नालं सोढुं नराधिपाः
तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः। कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान्