कम्बलाश्वतरौ चापि नागः कालीयकस्तथा। वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ
नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः। क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः। मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान्
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्। हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः
कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः। कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा
कर्दमश्च महानागो नागश्च बहुमूलकः। कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम। बहुत्वान्नामधेयानामितरे नानुकीर्तिताः
एतेषां प्रसवो यश्च प्रसवस्य च संततिः। असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन
आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः। शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्
तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः। उग्रं तपः समातस्थे वायुभक्षो यतव्रतः
गन्धमादनमासाद्य बदर्यां च तपोरतः। गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च। एकान्तशीलो नियतः सततं विजितेन्द्रियः
तप्यमानं तपो घोरं तं ददर्श पितामहः। संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः। किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ। ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः। सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्
अभ्यसूयन्ति सततं परस्परममित्रवत्। ततोऽहं तप आतिष्ठे नैतन्पश्येयमित्युत
न मर्षयन्ति ससुतां सततं विनतां च ते। अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः
तं च द्विषन्ति सततं स चापि बलवत्तरः। वरप्रदानात्स पितुः कश्यपस्य महात्मनः
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्। कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः
तमेवं वादिनं शेषं पितामह उवाच ह। जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्। कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि। वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्
दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि। दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम। भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा
एष एव वरो देव काङ्क्षितो मे पितामह। धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर
प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च। त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्
इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम् त्वं शेष सम्यक् चलितां यथाव- त्संगृह्य तिष्ठस्व यथाऽचला स्यात्
यथाऽऽह देवो वरदः प्रजापति- र्महीपतिर्भूतपतिर्जगत्पतिः। तथा महीं धारयिताऽस्मि निश्चलां प्रयच्छतां मे विवरं प्रजापते