तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला। स्वजमानाऽवदच्छेकात्तत्तद्विलपती बहु
कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान्। अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः। कस्यापध्यानजं चेदमागः पश्यामि वो धिया
स्यात्तु मद्भाग्यदोषोऽयं याऽहं युष्मानजीजनम्। दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः
कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः। वीर्यसत्वबलोत्साहतेजोभिरकृशाः कृशाः
यद्येवमहमज्ञास्यं वने वासं हि वो ध्रुवम्। शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम्
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा। यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम्
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्। मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु
रत्या मत्या च गत्या च ययाऽहमभिसन्धिता। जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम्
पुत्रका न विहास्ये वः कृच्छ्रलब्धान्प्रियान्सतः। साऽहं यास्यामि हि वनं हा कृष्णे किं जहासि माम्
अन्तवत्यसुधर्मेऽस्मिन्धात्रा किं नु प्रमादतः। ममान्तो नैव विहितस्तेनायुर्न जहाति माम्
हा कृष्ण द्वारकावासिन्क्वासि सङ्कर्षणानुज। कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान्
अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः। तांस्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम्
इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः। नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया
सेयं नीत्यर्थविज्ञेषु कथमापदुपागता।। स्थितेषु कुलनाथेषु कथमापदुपागता
हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे। पुत्रान्विवास्यतः साधूनरिभिर्द्यूतनिर्जितान्
सहदेव निवर्तस्व ननु त्वमसि मे प्रियः। शरीरादपि माद्रेय मां मा त्याक्षीः कुपुत्रवत्
व्रजन्तु ब्रातरस्तेऽमी यदि सत्याभिसन्धिनः। मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि
एवं विपलतीं कुन्तीमभिवाद्य प्रणम्य च। पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः
विदुरश्चापि तामार्तां कुन्तीमाश्वास्य हेतुभिः। प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरः शनैः
धार्तराष्ट्रस्त्रिस्ताश्च निखिलेनोपलभ्य तत्। गमनं परिकर्षं च कृष्णाया द्यूतमण्डले
रुरुदुः सुस्वनं सर्वा विनिन्दन्त्यः कुरून्भृशम्। दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः
राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा। ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान्
स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः। क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्। तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे। धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्। निः श्वसन्तमनेकाग्रमिति होवाच सञ्जयः
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप। प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि
अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति। पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः
तवेदं सुकृतं राजन्महद्वैरमुपस्थितम्। विनाशो येन लोकस्य सानुबन्धो भविष्यति