अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्। बिलानि दंष्ट्रिणः सर्वे वानि मृगपक्षिणः
त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि। अनाक्रान्तं प्रपद्यन्तः सेवमानं त्यजन्तु च
तृणमांसफलादानां देशांस्त्यक्त्वा मृगद्विजाः। वयं पार्थैर्वने सम्यक्सह वत्स्याम निर्वृताः
इत्येवं विविधा वाचो नानाजनसमीरिताः। शुश्राव पार्थः श्रुत्वा च न विचक्रेऽस्य मानसम्
ततः प्रासादसंस्थास्तु समन्ताद्वै गृहे गृहे। ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः
गत्वा स्वगृहजालानि उत्पाट्यावरणानि च। ददृशुः पाण्डवान्दीनान्वल्कलाजिनवाससः
कृष्णां त्वदृष्टपूर्वां तां व्रजन्तीं पद्भिरेव च। एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम्
दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम्। विलप्य बहुधा मोहाद्दुःखशोकेन पीडिताः। हाहा धिग्धिग्धिगित्युक्त्वा नेत्रैरश्रूण्यवर्तयन्
जनस्याथ वजः श्रुत्वा स राजा भ्रातृभिः सह। उद्दिश्य वनावासाय प्रतस्थे कृतनिश्चयः
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्। अपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः
ततो निनादः सुमहान्पाण्डवान्तः पुरेऽभवत्
कुन्ती च भृशशन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम्। शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत्
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्। स्त्रीधर्माणामभिज्ञाऽसि शीलाचारवती तथा
न त्वां शन्देष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते। साध्वी गुणसमापन्ना भूषितं ते कुलद्वयम्
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयाऽनघे। अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता
भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते। गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवप्स्यसि
सहदेवश्च मे पुत्रः सदाऽवेक्ष्यो वने वसन्। यथेदं व्यसनं प्राप्य नायं सीदेन्महामतिः
तथेन्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला। शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्। अथापश्यन्सुतान्सर्वान्हृताभरणवाससः
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाह्मुखान्। परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान्
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला। स्वजमानाऽवदच्छेकात्तत्तद्विलपती बहु
कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान्। अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः। कस्यापध्यानजं चेदमागः पश्यामि वो धिया
स्यात्तु मद्भाग्यदोषोऽयं याऽहं युष्मानजीजनम्। दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः
कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः। वीर्यसत्वबलोत्साहतेजोभिरकृशाः कृशाः
यद्येवमहमज्ञास्यं वने वासं हि वो ध्रुवम्। शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम्
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा। यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम्
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्। मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु
रत्या मत्या च गत्या च ययाऽहमभिसन्धिता। जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम्
पुत्रका न विहास्ये वः कृच्छ्रलब्धान्प्रियान्सतः। साऽहं यास्यामि हि वनं हा कृष्णे किं जहासि माम्