अथाधिरुह्य सस्त्रीका उदासीना व्यलोकयन्। न हि रथ्यास्तदा शक्या गन्तुं ताश्च जनाकुलाः
आरुह्य स्मानतास्तत्र दीनाः पश्यन्ति पाण्डवान्। पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम्
वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा। ऊचुर्बहुविधा वाचो भृशोपहतचेतसः
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्। तमेकं कृष्णया सार्धमनुगच्छन्ति पाण्डवाः
चत्वारो भ्रातरश्चैव धौम्यश्चैव पुरोहितः। भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ
धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना। या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि
तामद्य कृष्णां पश्यन्ति राजमार्गगता जनाः। अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम्
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्। अद्य नूनं पृथा देवी सत्यमाविश्य भाषते
पुत्रान्स्नुषां च देवी तु द्रष्टुमद्याथ नार्हति। निर्गुणस्यापि पुत्रस्य कथं स्याहुः स्वदर्शनम्
किम्पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्। आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्। तस्मादस्योपघातेन प्रजाः परमपीडिताः
औदकानीव सत्वानि ग्रीष्मे सलिलसङ्क्षयात्। पीडया पीडितं सर्वं जगदस्य जगत्पतेः
मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः। मूलं ह्येष मनुष्याणां धर्मराजो महाद्युतिः
पुष्पं फलं च पत्रं च शाखास्तस्येतरे जनाः। ते भ्रातर इव क्षिप्रं सपुत्राः सहबान्धवाः
गच्छन्तमनुगच्छामो येन गच्छति पाण्डवः। उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च
एकदुःखसुखाः पार्थमनुयाम सुधार्मिकम्। समुच्छ्रितपताकानि परिध्वस्ताजिराणि च
उपात्तधनधान्यानि हृतसाराणि सर्वशः। रजसाऽप्यवकीर्णानि परित्यक्तानि दैवतैः
मूषकैः परिधावद्भिरुद्बलैरावृतानि च। अपेतोदकधूमानि हीनसंमार्जनानि च
प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च। दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च
अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम्। वनं नगरमेवास्तु येन गच्छन्ति पाण्डवाः
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्। बिलानि दंष्ट्रिणः सर्वे वानि मृगपक्षिणः
त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि। अनाक्रान्तं प्रपद्यन्तः सेवमानं त्यजन्तु च
तृणमांसफलादानां देशांस्त्यक्त्वा मृगद्विजाः। वयं पार्थैर्वने सम्यक्सह वत्स्याम निर्वृताः
इत्येवं विविधा वाचो नानाजनसमीरिताः। शुश्राव पार्थः श्रुत्वा च न विचक्रेऽस्य मानसम्
ततः प्रासादसंस्थास्तु समन्ताद्वै गृहे गृहे। ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः
गत्वा स्वगृहजालानि उत्पाट्यावरणानि च। ददृशुः पाण्डवान्दीनान्वल्कलाजिनवाससः
कृष्णां त्वदृष्टपूर्वां तां व्रजन्तीं पद्भिरेव च। एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम्
दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम्। विलप्य बहुधा मोहाद्दुःखशोकेन पीडिताः। हाहा धिग्धिग्धिगित्युक्त्वा नेत्रैरश्रूण्यवर्तयन्
जनस्याथ वजः श्रुत्वा स राजा भ्रातृभिः सह। उद्दिश्य वनावासाय प्रतस्थे कृतनिश्चयः
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्। अपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः