तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ। त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः
यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः। यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते
युधिष्ठिर विजानीहि ममेदं भरतर्षभ। नाधर्मेण जितः कश्चिद्व्यथते वै पराजये
त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः। हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः। धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः। परैरभेद्याः सन्तुष्टाः को वोन न स्पृहयेदिह
एष वै सर्वकल्याणः समाधिस्तव भारत। नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा। द्वैपायनेन कृष्णेन नगरे वारणावते
भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना। अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति
कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः। द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः
माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम्। पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्गोपसेवया। ऐन्द्रे जये धृतमना याम्ये कोपविधारणे
तथा विसर्गे कौबेरे वारुणे कोपविधारणे।। आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात्। वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्
अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान्। आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर। आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत
कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम्। न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम्
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः। भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः
ततः सम्प्रस्थिते तत्र धर्मराजे तदा नृप। जनाः समन्ताद्द्रष्टुं तं समारुरुहुरातुराः
ततः प्रासादवर्याणि विमानशिखराणि च। गोपुराणि च सर्वाणि वृक्षानन्यांश्च सर्वशः
अथाधिरुह्य सस्त्रीका उदासीना व्यलोकयन्। न हि रथ्यास्तदा शक्या गन्तुं ताश्च जनाकुलाः
आरुह्य स्मानतास्तत्र दीनाः पश्यन्ति पाण्डवान्। पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम्
वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा। ऊचुर्बहुविधा वाचो भृशोपहतचेतसः
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्। तमेकं कृष्णया सार्धमनुगच्छन्ति पाण्डवाः
चत्वारो भ्रातरश्चैव धौम्यश्चैव पुरोहितः। भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ
धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना। या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि
तामद्य कृष्णां पश्यन्ति राजमार्गगता जनाः। अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम्
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्। अद्य नूनं पृथा देवी सत्यमाविश्य भाषते
पुत्रान्स्नुषां च देवी तु द्रष्टुमद्याथ नार्हति। निर्गुणस्यापि पुत्रस्य कथं स्याहुः स्वदर्शनम्
किम्पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्। आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः