अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः। शकुनिं चाक्षकितवं सहदेवो हनिष्यति
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः। सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि। शिरः पादेन चास्याहमधिष्ठास्यामि भूतले
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः। दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव
भीमसेन न ते सन्ति येषां वैरं त्वया त्विह। मत्ता मृगेषु सुखिनो न बुद्ध्यन्ते महद्भयम्
नैवं वाचा व्यवसितं भीम विज्ञायते सताम्। इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्
असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम्। भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया। कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः। तांश्च सर्वानहं बाणैर्नेताऽस्मि यमसादनम्
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः। शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे। दुर्योधनोऽभिसत्कृत्य सत्यमेतद्भविष्यति
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः। प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्। क्रोधसंरक्तनयनो निः श्वसन्निव पन्नगः
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर। नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्। कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः
हन्ताऽस्मि तरसा युद्धे त्वामेवहे सबान्धवम्। यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते। दर्शनीयतमो नॄणामिदं वचनमब्रवीत्
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः। यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान्। गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम्
उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम्। क्रूरं हन्ताऽस्मि समरे तं वै क्रूरं नराधमम्
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्। निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि नचिरादिव
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः। प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन्
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम्।। राजानं सोमदत्तं च महाराजं च बाह्लिकम्
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च। विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः
सौमदत्तिं महावीर्यं विकर्णं च महामतिम्'। युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः
गान्धारीं च महाभागां मातरं च तथा पृथाम्'। सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः
न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम्। मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति। सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि। इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः