इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि। असंशयं त्रिदिवमियात्स पुण्यभा- ङ्महात्मनः पतगपतेः प्रकीर्तनात्
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च। विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा। नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः
पन्नगानां तु नामानि न कीतर्यसि सूतज। प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्
बहुत्वान्नामधेयानि पन्नगानां तपोधन। न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ
कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः
नीलानीलौ तथा नागौ कल्माषशबलौ तथा। आर्यकश्चोग्रकश्चैव नागः कलशपोतकः
सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः। आप्तः कोटरकश्चैव शङ्खो वालिशिखस्तथा
निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा। वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ
नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः। क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः। मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान्
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्। हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः
कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः। कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा
कर्दमश्च महानागो नागश्च बहुमूलकः। कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम। बहुत्वान्नामधेयानामितरे नानुकीर्तिताः
एतेषां प्रसवो यश्च प्रसवस्य च संततिः। असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन
आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः। शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्
तेषां तु भगवाञ्छेषः कद्रूं त्यक्त्वा महायशाः। उग्रं तपः समातस्थे वायुभक्षो यतव्रतः
गन्धमादनमासाद्य बदर्यां च तपोरतः। गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च। एकान्तशीलो नियतः सततं विजितेन्द्रियः
तप्यमानं तपो घोरं तं ददर्श पितामहः। संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः। किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ। ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः। सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्
अभ्यसूयन्ति सततं परस्परममित्रवत्। ततोऽहं तप आतिष्ठे नैतन्पश्येयमित्युत
न मर्षयन्ति ससुतां सततं विनतां च ते। अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः