युयुत्सुना कृपेणाथ सञ्जयेन च भारत। गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा। सोमदत्तेन च तथा बाह्लीकेन च धीमता
वार्यमाणोपि सततं न च राजन्नियच्छति। एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत्। अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत
एवं भवत्विति तदा वनवासाय दीव्यति'। प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः।। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
ततः पराजिताः पार्था वनावासाय दीक्षिताः। अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान्। प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत्
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः। पराजिताः पाण्डवेया विपत्तिं परमां गताः
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः। गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः
नरकं पातिताः पार्था दीर्घकालमनन्तकम्। मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः। ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवः
चित्रान्सन्नाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति।। विवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः
न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा। ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा विपर्यये पाण्ढतिला इवाफलाः
इदं हि वासो यदि वेदृशानां मनस्विनां रौरवमाहवेषु।। आदीक्षितानामजिनानि यद्व- द्वलीयसां पश्यत पाण्डवानाम्
महाप्राज्ञः सौमकिर्यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय। अकार्षिद्वै सुकृतं नेह किञ्चित् क्लीबाः पार्थाः पतयो याज्ञसेन्याः
सूक्ष्मप्रावारानजिनोत्तरीयान् दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान्। कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्वेह यमन्यमिच्छसि
एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः। एषां वृणीष्वैकतमं पतित्वे न त्वां नयेत्कालविपर्ययोऽयम्
यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः। तथैव पाण्डवाः सर्वे यथा काकयवा अपि
किं पाण्डवांस्ते पतितानुपास्य मोघः श्रमः षण्ढतिलानुपास्य। एवं नृशंसः परुषाणि पार्था- नश्रावयद्धृतराष्ट्रस्य पुत्रः
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात्। उवाच चैनं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम्
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे। गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे
यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम्। तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे
ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः। गोप्तारः सानुबन्धांस्तान्नेताऽस्मि यमसादनम्
एवं ब्रुवाणमजिनैर्विवासितं दुःशासनस्तं परिनृत्यति स्म। मध्ये कुरूणां धर्मनिबद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः
नृशंस परुषं वक्तुं दुःशासन त्वया। निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति
मैव स्म सुकृतां लोकान्गच्छेत्पार्थो वृकोदरः। यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे
धार्तराष्ट्रान्रणे हत्त्वा मिषतां सर्वधन्विनाम्। शमं गन्ताऽस्मि नचिरात्सत्यमेतद्ब्रवीमि ते
तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात्। गतिं स्वगत्याऽनुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः
नैतावता कृतमित्यब्रवीत्तं वृकोदरः सन्निवृत्तार्धकायः। शीघ्रं हि त्वां निहतं सानुबन्धं संस्मार्याहं प्रतिवक्ष्यामि मूढ
एवं समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी। राजानुगः संसदि कौरवाणां विनिष्कामन्वाक्यमुवाच भीमः