अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर। अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत
अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा। ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्। बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ
जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः। ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत्। अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन्
कथं वै मद्विधो राजा स्वधर्ममनुपालयन्। आहूतो विनिवर्तेत दीव्यामि शकुने त्वया
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम्। गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः
हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः। यूयं वयं वा विजिता वसेम वनमाश्रिताः
त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा। अनेन व्यवसायेन दीव्याम पुरुषर्षभाः
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः। भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता
युयुत्सुना कृपेणाथ सञ्जयेन च भारत। गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा। सोमदत्तेन च तथा बाह्लीकेन च धीमता
वार्यमाणोपि सततं न च राजन्नियच्छति। एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत्। अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत
एवं भवत्विति तदा वनवासाय दीव्यति'। प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः।। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
ततः पराजिताः पार्था वनावासाय दीक्षिताः। अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान्। प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत्
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः। पराजिताः पाण्डवेया विपत्तिं परमां गताः
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः। गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः
नरकं पातिताः पार्था दीर्घकालमनन्तकम्। मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः। ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवः
चित्रान्सन्नाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति।। विवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः
न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा। ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा विपर्यये पाण्ढतिला इवाफलाः
इदं हि वासो यदि वेदृशानां मनस्विनां रौरवमाहवेषु।। आदीक्षितानामजिनानि यद्व- द्वलीयसां पश्यत पाण्डवानाम्
महाप्राज्ञः सौमकिर्यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय। अकार्षिद्वै सुकृतं नेह किञ्चित् क्लीबाः पार्थाः पतयो याज्ञसेन्याः
सूक्ष्मप्रावारानजिनोत्तरीयान् दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान्। कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्वेह यमन्यमिच्छसि
एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः। एषां वृणीष्वैकतमं पतित्वे न त्वां नयेत्कालविपर्ययोऽयम्
यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः। तथैव पाण्डवाः सर्वे यथा काकयवा अपि
किं पाण्डवांस्ते पतितानुपास्य मोघः श्रमः षण्ढतिलानुपास्य। एवं नृशंसः परुषाणि पार्था- नश्रावयद्धृतराष्ट्रस्य पुत्रः
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात्। उवाच चैनं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम्