असम्भवो हेममयस्य जन्तो- स्तथापि रामो लुलुभे मृगाय। प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः। जानांश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः
विविशुस्ते सभां तां तु पुनरेव महारथाः। व्यथयन्ति स्म चेतांसि मुहृदां भरतर्षभाः
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये। सर्वलोकविनाशाय दैवेनोपनिपीडिताः
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्। महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ
वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः। प्रविशेम महारण्यं रौरवाजिनवाससः
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश
अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान्। वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः
त्रयोदशं च स्वजनैरज्ञाताः पिरवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्। स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर। अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत
अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा। ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्। बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ
जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः। ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत्। अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन्
कथं वै मद्विधो राजा स्वधर्ममनुपालयन्। आहूतो विनिवर्तेत दीव्यामि शकुने त्वया
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम्। गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः
हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः। यूयं वयं वा विजिता वसेम वनमाश्रिताः
त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा। अनेन व्यवसायेन दीव्याम पुरुषर्षभाः
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः। भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता
युयुत्सुना कृपेणाथ सञ्जयेन च भारत। गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा। सोमदत्तेन च तथा बाह्लीकेन च धीमता
वार्यमाणोपि सततं न च राजन्नियच्छति। एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत्। अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत
एवं भवत्विति तदा वनवासाय दीव्यति'। प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः।। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
ततः पराजिताः पार्था वनावासाय दीक्षिताः। अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान्। प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत्
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः। पराजिताः पाण्डवेया विपत्तिं परमां गताः
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः। गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः
नरकं पातिताः पार्था दीर्घकालमनन्तकम्। मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः