तानुपायान्हि कौन्तेया बहुशो व्यतिचक्रमुः। तस्माद्वितं जीविताय नः कुलस्य जनस्य च
त्वं चिकीर्षसि चेद्वत्स समित्रः सहबान्धवः। सभ्रातृकस्त्वं पार्थेन नित्यं स्नेहेन वर्तय
धृतराष्ट्रवचः श्रुत्वा राजा दुर्योधनस्तदा। चिन्तयित्वा मुहूर्तं तु विधिना चोदितोऽब्रवीत्
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः। एवमेतान्वशे कर्तुं शक्ष्यामः पुरुषर्षभ।।ष
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः। प्रविशेम महारण्यमजिनैः प्रतिवासिताः
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्। अक्षानुप्त्वा पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ। अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम्
दृढमूलं वयं राज्ये मित्राणि परिगृह्य च। सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम्
ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद्व्रतम्। जेष्यामस्तान्वयं राजत्रोचतां ते परन्तप
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि। आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः
ततो द्रोणः सोमदत्तो बाह्लीकश्चैव गौतमः। विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान्
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः। मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्। अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्। पुत्रहार्दाद्धर्मयुक्ता गान्धारी शोककर्शिता
जाते दुर्योधने क्षत्ता महामतिरभाषत। नीयतां परलोकाय साध्वयं कुलपांसनः
व्यनदज्जातमात्रो हि गोमायुरिव भारत। अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत
मा निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत। मा बालानामशिष्टानामभिमंस्था मतिं प्रभो
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि। बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम्
शमे स्थितान्को नु पार्थान्कोपयेद्भरतर्षभ। स्मरन्तं त्वामाजमीढं स्मारयिष्याम्यहं पुनः
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च। न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः। तस्मादयं मद्वचनात्त्यज्यतां कुलपांसनः
तथा ते न कृतं राजन्पुत्रस्नेहान्नराधिप। तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत्
शमेन धर्मेण नयेन युक्ता या ते बुद्धिः साऽस्तु ते मा प्रमादीः। प्रध्वंसिनी क्रूरसमाहिता श्री- र्मृदुप्रौढा गच्छति पुत्रपौत्रान्
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम्। अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम्
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः। पुनर्द्यूतं च कुर्वन्तु मामकाः पाण्डवैः सह
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्। उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः
उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर। एहि पाण्डव दीव्येति पिता त्वाह नराधिपः
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्। न निवृत्तिस्तयोरस्ति देवतव्यं पुनर्यदि
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च। जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे