भूयोऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम्। विजित्य नववर्षांश्च सपुरांश्च सपर्वतान्
जम्बुद्वीपं वशे कृत्वा सर्वं तद्भरतर्षभ। बलाज्जित्वा नृपान्सर्वान्करे चविनिवेश्य च
रत्नान्यादाय सर्वाणि गत्वा चैव पुनः पुरीम्। ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम्। राजसूयं क्रतुश्रेष्ठं कारयामास भारत
स तान्यन्यानि कर्माणि कृतवानर्जुनः पुरा। अर्जुनेन समो वीर्ये त्रिषु लोकेषु न क्वचित्
देवदानवयक्षाश्च पिशाचोरगराक्षसाः। भीष्मद्रोणादयः सर्वे कुरवश्च महारथाः
लोके सर्वनृपाश्चैव वीराश्चान्ये धनुर्धराः। एते पार्थं रणे युक्ताः प्रतियोद्धुं न शक्नुयुः
अहं हि नित्यं कौरव्य फल्गुनं हृदि संस्थितम्। अपश्यं चिन्तयित्वा तं समुद्विग्नोऽस्मि तद्भयात्
गृहे गृहे च पश्यामि तात पार्थमहं सदा। शरगाण्डीवसंयुक्तं पाशहस्तमिवान्तकम्
अपि पार्थसहस्राणि भीतः पश्यामि भारत। पार्थभूतमिदं सर्वं नगरं प्रतिभाति मे
पार्थमेव हि पश्यामि रहिते तात भारत। दृष्ट्वा स्वप्नगतं पार्थमुद्धमामि विचेतनः
अकारादीनि नामानि अर्जुनग्रस्तचेतसः। अश्वाक्षराम्बुजाश्चैव त्रासं सञ्जनयन्ति मे
नास्ति पार्थादृते तात परवीराद्भयं मम। प्रह्लादं वा बलिं वापि हन्याद्धि विजयो रणे
तस्मात्तेन महाराज युद्धं नस्तात न क्षमम्। अहं तस्य प्रभावज्ञो नित्यं दुःखं वहामि च
पुरा हि दण्डकारण्ये मारीचस्य यथा भयम्। भवेद्रामे महावीर्ये तथा पार्थे भयं मम
जानाम्येव महद्वीयं जिष्णोरेतद्दुरासदम्। एतद्वीरस्य पार्थस्य कार्षीस्त्वं तु विप्रियम्
द्यूतं वा शस्त्रयुद्धं वा दुवाक्यं वा कथञ्चन। एतेष्वेवं कृते तस्य विग्रहश्चैव वो भवेत्
तस्मात्त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय। यश्च पार्थेन सम्बन्धो वर्तते चेन्नरो भुवि
तस्य नास्ति भयं किञ्चित्रिषु लोकेषु भारत। तस्मात्त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय
द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता। तस्माद्वि नो जयस्तात अन्योपायेन नो भवेत्
उपायश्च न कर्तव्यः पाण्डवान्प्रति भारत। पार्थान्प्रति पुरा वत्स बहूपायाः कृतास्त्वया
तानुपायान्हि कौन्तेया बहुशो व्यतिचक्रमुः। तस्माद्वितं जीविताय नः कुलस्य जनस्य च
त्वं चिकीर्षसि चेद्वत्स समित्रः सहबान्धवः। सभ्रातृकस्त्वं पार्थेन नित्यं स्नेहेन वर्तय
धृतराष्ट्रवचः श्रुत्वा राजा दुर्योधनस्तदा। चिन्तयित्वा मुहूर्तं तु विधिना चोदितोऽब्रवीत्
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः। एवमेतान्वशे कर्तुं शक्ष्यामः पुरुषर्षभ।।ष
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः। प्रविशेम महारण्यमजिनैः प्रतिवासिताः
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम्। ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्। अक्षानुप्त्वा पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ। अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम्
दृढमूलं वयं राज्ये मित्राणि परिगृह्य च। सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम्
ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद्व्रतम्। जेष्यामस्तान्वयं राजत्रोचतां ते परन्तप