जित्वा तु तान्महीपालान्सर्वान्कर्णपुरोगमान्। लेभे कृष्णां शुभां पार्थो युध्वा वीर्यबलात्तदा
सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा। ततः कदाचिद्बीभत्सुस्तीर्ययात्रां ययौ स्वयम्
अथोलूपीं शुभां तात नागराजसतां तदा। नागेष्वाप वराग्र्येषु प्रार्थितोऽथ यथा तथा
ततो गोदावरीं कृष्णां कावेरीं चावगाहत। तत्र पाण्ड्यं समासाद्य तस्य कन्यामवाप सः
लब्ध्वा जिष्णुर्मुदं तत्र ततो याम्यां दिशं ययौ
स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै। कुमारतीर्थमासाद्य मोक्षयामास चार्जुनः
ग्राहरूपाश्च ताः पञ्च अतिशौर्येण वै बलात्। कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ
तत्र कृष्णनिदेशात्स सुभद्रां प्राप्य फल्गुनः। तामारोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति
अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः। तमभ्यधावन्त्सङ्क्रुद्धाः सिंहव्याघ्रगणा इव
प्रद्युम्नः कृतवर्मा च गदः सारणसात्यकी। आहुकश्चैव साम्बश्च चारुदेष्णो विदूरथः
अन्ये च यादवाः सर्वे बलदेवपुरोगमाः। एकमेव परे कृष्णं गजवाजिरथैर्युताः
अथासाद्य वने यान्तं परिवार्य धनञ्जयम्। चक्रुर्युद्धं सुसङ्क्रुद्धा बहुकोट्यश्च यादवाः
एक एव तु पार्थस्तैर्युद्धं चक्रे सुदारुणम्। तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह
ततः पार्थो रणे सर्वान्वारयित्वा शितैः शरैः। बलाद्विजित्य राजेन्द्र वीरस्तान्सर्वयादवान्। तां सुभद्रामथादाय शक्रप्रस्थं विवेश ह
भूयः शृणु महाराज फल्गुनस्य च साहसम्। ददौ स वह्नेर्बिभत्सुः प्रार्थितं खाण्डवं वनम्
लब्धमात्रे तु तेनाथ भगवान्हव्यवाहनः। भक्षितुं खाण्डवं राजंस्तत्रस्थानुपचक्रमे
ततस्तं भक्षयन्तं वै सव्यसाची विभावसुम्। रथा धन्वी शरान्गृह्य स कलापयुतः प्रभुः। पालयामास राजेन्द्र स्ववीर्येण महाबलः
ततः श्रुत्वा महेनद्रस्तु मेघांस्तान्सन्दिदेश ह। तेनोक्ता मेघसङ्घास्ते ववर्षुरतिवृष्टिभिः
ततो मेघगाणान्पार्थः शरव्रातैः समान्ततः। खगमैर्वारयामास तदाश्चर्यमिवाभवत्
वारितान्मेघसङ्घांश्च श्रुत्वा क्रुद्धः पुरन्दरः। पाण्डरं गजमास्थाय सर्वदेवगणैर्वृतः। ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च
रुद्राश्च मरुतश्चैव वसवश्चाश्विनौ तदा। आदित्याश्चैव साध्याश्च निश्वेदेवाश्च भारत। गन्धर्वाश्चैव सहिता अन्ये देवगणाश्च ये
ते सर्वे शस्त्रसम्पन्ना दीप्यमानाः स्वतेजसा। धनञ्जयं जिघांसन्तः प्रपेतुर्विबुधाधिपाः
युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्यपि। सर्वाणि तत्र दृश्यन्ते निमित्तानि महीपते
ततो देवगमाः सर्वे पार्थं समभिदुद्रुवुः। असम्भ्रान्तस्तु तान्दृष्ट्वा स तां देवमयीं चमूम्
त्वरितः फल्गुनो गृह्य तीक्ष्णांस्तानाशुगांस्तदा। इन्द्रं देवांश्च सम्प्रेक्ष्य तस्थौ काल इवात्यये
ततो देवगणाः सर्वे बीभत्सुं सपुरन्दराः। अवाकिरञ्छरव्रातैर्मानुषं तं महीपते
ततः पार्थो महातेजा गाण्डिवं गृह्य सत्वरः। वारयामास देवानां शरव्रातैः शरांस्तदा
पुनः क्रुद्धाः सुराः सर्वे मर्त्यं तं सुभहाबलाः। नानाशस्त्रैर्ववर्षुस्तं सव्यसाची महीपते
तान्पार्थः शस्त्रवर्षान्वै विसृष्टान्विबुधैस्तदा। द्विधा त्रिधा स चिच्छेद स एव निशितैः शरैः
पुनश्च पार्थः सङ्क्रुद्धो मण्डलीकृतकार्मुकः। देवसङ्घाञ्छरैस्तीक्ष्णैरर्पयन्वै समन्ततः