देहि सिन्धुपते युद्धमद्यैव त्वरया मम। अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम्
लोके राजन्महावीर्या बहवो निवसन्ति ये। तेषामेकेन राजेन्द्र कुरु युद्धं महाबल
मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित्। विद्यते तं ममाचक्ष्व यः समासेत मा मृधे
महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः। तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति
समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः। नारदस्य च वै पूर्वं क्रोधेन महता वृतः
ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत। स तमाश्रममागत्य काममेवान्वपद्यत
स कामं प्रतिकूलानि चकार सह बन्धुभिः। आयासं जनयामास रामस्य स महात्मनः
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः। प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा
अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव
ततः परशुमादाय नृपं बाहुसहस्रिणम्। चिच्छेद सहसा रामो बहुशाखमिव द्रुमम्
तं हतं पतितं दृष्ट्वा समेतास्तस्य बान्धवाः। असीनादाय शक्तीश्च रामं ते प्रत्यवारयन्
रामोऽपि रथमास्थाय धनुरायम्य सत्वरः। विसृजन्परमास्त्राणि व्यधमत्पार्थिवान्बली
ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः। विविशुर्गिरिदुर्गाणि मृगाः सिंहभयादिव
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति। प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्
तथा च द्रविडाः काचाः पुण्डाश्च शबरैः सह। वृषलत्वं परिगता विच्छिन्नाः क्षत्रधर्मिणः
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः। द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च
ततस्त्रिस्मप्तमे याते रामं वागशरीरिणी। दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता
रामराम निवर्तस्व स्वगुणं नात्र पश्यसि। क्षत्रबन्धूनिमान्प्रामैर्विप्रयुज्य पुनः पुनः
तथैव तं महात्मानमृचीकप्रमुखास्तथा। रामराम महावीर्य निवर्तस्वेत्यथाब्रुवन्
पितुर्वधमसमृष्यंस्तु रामः प्रोवाच तानृषीन्। नार्हा हन्त भवन्तो मां निवारयितुमित्युत
नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर। न हि युक्तं त्वया तात ब्राह्मणेनसता नृपान्
पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः। अश्वमेधसहस्राणि नरमेधशतानि च
इष्ट्वा सागरपर्यन्तां काश्यपाय ददौ महीम्। तेन रामेण सङ्ग्रामे तुल्यस्तात दयञ्जयः
कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः। रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते
शृणु राजन्पुराऽचिन्त्यानर्जुनस्य च साहसान्। अर्जुनो धन्विनां श्रेष्ठो दुष्करं कृतवान्पुरा
द्रुपदस्य पुरे राजन्द्रौपद्याश्च स्वयंवर।। आबालवृद्धसङ्क्षोभे सर्वक्षत्रसमागमे। क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह
सर्वैर्नृपैरसाध्यं तत्कार्मुकप्रवरं च वै। क्षणेन सज्यमकरोत्सर्वक्षत्रस्य पश्यतः
ततो यन्त्रमयं विध्वा विसारं फल्गुनो बली। कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः
ततस्तया वृतं पार्थं दृष्ट्वा सर्वे नृपास्तदा। रोषात्सर्वायुधान्गृह्य क्रुद्धा वीरा महौजसः। वैकर्तनं पुरस्कृत्य सर्वे पार्थमुपाद्रवन्
स सर्वान्पार्थिवान्दृष्ट्वा क्रुद्धान्पार्थो महाबलः। वारयित्वा शरैस्तीक्ष्णैरजयत्तत्र स स्वयम्