ततस्तां स नदीं गत्वा प्रविश्यन्तर्जले तदा। कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे
तस्मिन्नेव ततः काले रावमो राक्षसैः सह। लङ्काया ईश्वरस्तात तं देशं प्रययौ बली
ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः। नित्यं क्रोधपरो धीरो वरदानेन मोहितः
अभ्यघावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा। अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत्
ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै। ततस्तु दुर्जयं वीरं वरदानेन दर्पितम्
राक्षसेन्द्रं मनुष्येन्द्रो जित्वा बध्वा रणे बलात्। बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम्
स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा। मोक्षयाणास बन्धाद्वै पुरे दृष्ट्वाऽर्जुनं तदा
ततः कदाचित्तेजस्वी कार्तवीर्योर्जुनो बली। समुद्रतीरं गत्वाथ विरचन्दर्पमोहितः
अवाकिरच्छितशरैः समुद्रं स तु भारत। तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत
आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते। मदाश्रयाणि सत्वानि त्वद्विसृष्टैर्महेषुभिः। बाध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो
देहि सिन्धुपते युद्धमद्यैव त्वरया मम। अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम्
लोके राजन्महावीर्या बहवो निवसन्ति ये। तेषामेकेन राजेन्द्र कुरु युद्धं महाबल
मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित्। विद्यते तं ममाचक्ष्व यः समासेत मा मृधे
महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः। तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति
समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः। नारदस्य च वै पूर्वं क्रोधेन महता वृतः
ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत। स तमाश्रममागत्य काममेवान्वपद्यत
स कामं प्रतिकूलानि चकार सह बन्धुभिः। आयासं जनयामास रामस्य स महात्मनः
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः। प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा
अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव
ततः परशुमादाय नृपं बाहुसहस्रिणम्। चिच्छेद सहसा रामो बहुशाखमिव द्रुमम्
तं हतं पतितं दृष्ट्वा समेतास्तस्य बान्धवाः। असीनादाय शक्तीश्च रामं ते प्रत्यवारयन्
रामोऽपि रथमास्थाय धनुरायम्य सत्वरः। विसृजन्परमास्त्राणि व्यधमत्पार्थिवान्बली
ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः। विविशुर्गिरिदुर्गाणि मृगाः सिंहभयादिव
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति। प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्
तथा च द्रविडाः काचाः पुण्डाश्च शबरैः सह। वृषलत्वं परिगता विच्छिन्नाः क्षत्रधर्मिणः
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः। द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च
ततस्त्रिस्मप्तमे याते रामं वागशरीरिणी। दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता
रामराम निवर्तस्व स्वगुणं नात्र पश्यसि। क्षत्रबन्धूनिमान्प्रामैर्विप्रयुज्य पुनः पुनः
तथैव तं महात्मानमृचीकप्रमुखास्तथा। रामराम महावीर्य निवर्तस्वेत्यथाब्रुवन्
पितुर्वधमसमृष्यंस्तु रामः प्रोवाच तानृषीन्। नार्हा हन्त भवन्तो मां निवारयितुमित्युत