स चार्जुनो महाराज तपो घोरं चकार ह। साग्रं वर्षायुतं जज्ञ इत्येवं मे श्रुतं पुरा?
तथेयं पृथिवी राजन्सप्तद्वीपा सपत्तना। ससमुद्राकरा तात विधिनोग्रेण वै जिता?
स चार्जुनोऽथ तेजस्वी तपः परमदुश्चरम्। दत्तमाराधयामास सोऽर्जुनोऽत्रिसुतं मुनिम्
तस्य दत्तो वरान्प्रादाच्चतुरः पार्थिवस्य वै। पूर्वं बाहुसहस्रं तु प्रार्थितः परमो वरः
अधर्मे प्रीयमाणस्य सद्भिस्तत्र निवारणम्। धर्मेण पृथिवीं जित्वा धर्मेणैव हि रञ्जनम्
सङ्ग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः। सङ्ग्रामे यतमानस्य वधश्चैवाधिकाद्रणै
तस्य बाहुसहस्रं तु युध्यतः किल भारत। रथो ध्वजश्च सञ्जज्ञ इत्येवं मे श्रुतं परा
तथेयं पृथिवी राजन्त्सप्तद्वीपा सपत्तना। ससमुद्राकरा तात विधिनोग्रेण वै जिता
चार्जुनोऽथ तेजस्वी सप्तद्वीपेश्वरो।़भवत्। च राजा महायज्ञानाजहार महाबलः। प्रशशास महाबाहुर्महीं स च समा बहूः
ततोऽर्जुनः कदाचिद्वै राजन्माहिष्मतीपतिः। नर्मदां भरतश्रेष्ठं तां तु दारैर्ययौ सह
ततस्तां स नदीं गत्वा प्रविश्यन्तर्जले तदा। कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे
तस्मिन्नेव ततः काले रावमो राक्षसैः सह। लङ्काया ईश्वरस्तात तं देशं प्रययौ बली
ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः। नित्यं क्रोधपरो धीरो वरदानेन मोहितः
अभ्यघावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा। अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत्
ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै। ततस्तु दुर्जयं वीरं वरदानेन दर्पितम्
राक्षसेन्द्रं मनुष्येन्द्रो जित्वा बध्वा रणे बलात्। बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम्
स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा। मोक्षयाणास बन्धाद्वै पुरे दृष्ट्वाऽर्जुनं तदा
ततः कदाचित्तेजस्वी कार्तवीर्योर्जुनो बली। समुद्रतीरं गत्वाथ विरचन्दर्पमोहितः
अवाकिरच्छितशरैः समुद्रं स तु भारत। तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत
आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते। मदाश्रयाणि सत्वानि त्वद्विसृष्टैर्महेषुभिः। बाध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो
देहि सिन्धुपते युद्धमद्यैव त्वरया मम। अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम्
लोके राजन्महावीर्या बहवो निवसन्ति ये। तेषामेकेन राजेन्द्र कुरु युद्धं महाबल
मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित्। विद्यते तं ममाचक्ष्व यः समासेत मा मृधे
महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः। तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति
समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः। नारदस्य च वै पूर्वं क्रोधेन महता वृतः
ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत। स तमाश्रममागत्य काममेवान्वपद्यत
स कामं प्रतिकूलानि चकार सह बन्धुभिः। आयासं जनयामास रामस्य स महात्मनः
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः। प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा
अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव
ततः परशुमादाय नृपं बाहुसहस्रिणम्। चिच्छेद सहसा रामो बहुशाखमिव द्रुमम्