यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्। त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज। यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्। भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्। भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः
तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः। देवदेवं महात्मानं योगिनामीश्वरं हरिम्
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै। इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्। आजगाम ततस्तूर्णं सुपर्णी मातुरन्तिकम्
विनयावनतो भूत्वा वचनं चेदमब्रवीत्। इदमानीतममृतं देवानां भवनान्मया
प्रशाधि किमितो मातः करिष्यामि शुभव्रते
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः। भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा
अदासी चैव मातेयमद्यप्रभृति चास्तु मे। यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत। शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा। स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः
परस्परकृतद्वेषाः सोमप्राशनकर्मणि। अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन्
यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे। तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा। ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः। `नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः। विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो
एवं तदमृतं तेन हृतमाहृतमेव च। द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना
ततः सुपर्णः परमप्रहर्षवा- न्विहृत्य मात्रा सह तत्र कानने। भुजंगभक्षः परमार्चितः खगै- रहीनकीर्तिर्विनतामनन्दयत्
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि। असंशयं त्रिदिवमियात्स पुण्यभा- ङ्महात्मनः पतगपतेः प्रकीर्तनात्
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च। विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा। नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः
पन्नगानां तु नामानि न कीतर्यसि सूतज। प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्
बहुत्वान्नामधेयानि पन्नगानां तपोधन। न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ
कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः
नीलानीलौ तथा नागौ कल्माषशबलौ तथा। आर्यकश्चोग्रकश्चैव नागः कलशपोतकः
सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः। आप्तः कोटरकश्चैव शङ्खो वालिशिखस्तथा
निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः