शुद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः। अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश। भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयताम मनः
इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः। कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया। प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम्
अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्जयान्। पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता। राजन्दुः शासनः क्षिप्रं जगाम भ्रातरं प्रति
दुर्योधनं समासाद्य सामात्यं भरतर्षभ। दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत्
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ। शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः। मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्। अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन्
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः। शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन। पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम्
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान्। यदि तान्योधयिष्यामः किं वै निः परिहास्यति
अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान्। कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः। निःशेषान्नः करिष्यन्ति क्रुद्धा ह्याशीविषा इव
सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी। गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते
गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः। स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम्
नकुलः खह्गमादाय चर्म चाप्यर्धचन्द्रवत्। सहदेवश्च राजा च चक्रुराकारमिङ्गितैः
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान्। अभिघ्नान्तो रथव्रातान्सेनायोगाय निर्ययुः
न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते। द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति
न पश्यामि रणे क्रद्धुं बीभत्सुं प्रतिवारणम्। भीष्मो द्रोणश्च कर्णश्च द्रौणिश्च रथिनां वरः
कृपश्च वृषसेनश्च विकर्णश्च जयद्रथः। वाह्लीकः सोमदत्तश्च भूरिर्भूरिश्रवाः शलः
शकुनिः ससुतश्चैव नृपाश्चान्ये च कौरवाः। नैते सर्वे रणोद्युक्ताः पार्थं सोढुमशक्नुवन्
अर्जुनेन समो लोके नास्ति वीर्ये धनुर्धरः। योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
कस्त्वयोक्तः पुमान्वीरो बीभत्सुसमविक्रमः। तं ये व्रूहि महावीर्यं श्रोतुमिच्छामि पुत्रक
कार्तवीर्यस्य चरितं शृणु राजन्महात्मनः। अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः
ब्रह्मणोऽत्रिः सुतो विद्वानत्रेः पुत्रो निशाकरः। सोमस्य तदु बुधः पुत्रो बुधस्य तु पुरूरवाः
तस्याप्यध सुतोऽप्यायुरायोस्तु नहुषः सुतः। नहुशस्य ययातिस्तु ययातेस्तनुजो यदुः?
यदोः पुत्रो महाराज सहस्रैजेति विश्रुतः। सहसौजसुतो राजञ्छक्रदासेति विश्रुतः?
शक्रदानस्य दायादो हेहयो नाम पार्थिवः। हेहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः?
धर्मनेत्रस्य तु कृती कृतवीर्यस्तु कार्तिजः। कृतवीर्यस्य तनयो ह्यर्जुनो बलिनां वरः?