अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्। पाञ्चाली पाण्डुपुत्राणां नौरेषां पारगाऽभवत्
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः। स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्। अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः
अमेध्ये वै गतप्रामे शून्ये ज्ञातिभिरुज्झिते। देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्। धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम्
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः। भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि। सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम्
इहैवैतानहं सर्वान्हन्मि शत्रून्समागतान्। अथ निष्क्रम्य राजेन्द्र समूलान्हन्मि भारत
किं नो विवदितेनेह किमुक्तेन च भारत। अद्यैवैतान्निहन्मीह प्रशाधि पृथिवीमिमाम्
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिः सह। मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत
सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा। खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान्
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप। सधूमः सस्फुलिङ्गार्चिः पावकः समजायत
भ्रुकुटीकृतदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्। युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्। मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत
निवार्य च महाबाहुं कोपसंरक्तलोचनम्। पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः। नित्यं हि स्थातुमिच्छामस्तव भारत शासने
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत। अनुज्ञाताः सहधनाः स्वराज्यमनुशासत
इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम्। मया निगदितं सर्वं पथ्यं निःश्रेयसं परम्
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर। विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत। नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्। विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि। सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाम्
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः। प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः नराधमाः
न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः। प्रतिजल्पन्ति वै धीराः सदा तूत्तमपुरुषाः
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि। सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः
असम्भिन्नार्यमर्यादाः साधवः प्रियदर्शनाः। तथा चरित्तंमार्येण त्वयाऽस्मिन्सत्समागमे
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः। मातरं चैव गान्धारीं मां च त्वं गुणकाङ्क्षया
उपस्थितं वृद्धमन्धं पितरं पश्य भारत। प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्। अशोच्याः कुरवो राजन्येषां त्वमनुशासिता
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः। त्वयि धर्मोऽर्जुने धैर्यं भीमसेने पराक्रमः