मनस्विनमजानन्तो मैवं ब्रूयुः कुमारकाः। एतं वै दासपुत्रेति प्रतिविन्ध्यं ममात्मजम्
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित्। लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत
एवं भवतु कल्याणि यथा त्वमभिभाषसे। द्वितीयं ते वरं भद्रे ददानि वरयस्व ह। मनो हि मे वितरति नैकं त्वं वरमर्हसि
सरथौ सघनुष्कौ न भीमसेनधनञ्जयौ। यमौ च वरये राजन्नदासान्स्ववशानहम्
तथाऽस्तु ते महाभागे यथा त्वं नन्दिनीच्छसि। तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसंस्कृता
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे। अनर्हा वरमादातुं तृतीयं राजसत्तम
एकामाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रियो वरौ। त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम। वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः। तासामेतादृशं कर्म न कस्याश्चन शुश्रुम
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति। द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत्
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्। पाञ्चाली पाण्डुपुत्राणां नौरेषां पारगाऽभवत्
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः। स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्। अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः
अमेध्ये वै गतप्रामे शून्ये ज्ञातिभिरुज्झिते। देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्। धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम्
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः। भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि। सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम्
इहैवैतानहं सर्वान्हन्मि शत्रून्समागतान्। अथ निष्क्रम्य राजेन्द्र समूलान्हन्मि भारत
किं नो विवदितेनेह किमुक्तेन च भारत। अद्यैवैतान्निहन्मीह प्रशाधि पृथिवीमिमाम्
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिः सह। मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत
सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा। खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान्
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप। सधूमः सस्फुलिङ्गार्चिः पावकः समजायत
भ्रुकुटीकृतदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्। युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्। मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत
निवार्य च महाबाहुं कोपसंरक्तलोचनम्। पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः। नित्यं हि स्थातुमिच्छामस्तव भारत शासने
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत। अनुज्ञाताः सहधनाः स्वराज्यमनुशासत
इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम्। मया निगदितं सर्वं पथ्यं निःश्रेयसं परम्
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर। विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत। नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते