क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम्। सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम्
एवमुक्ते तु वचने द्रौपद्या धर्मशीलया। ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापततम्
तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः। अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै
द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनञ्जयः। स तदा क्रोधताम्राक्ष इदं वचनमब्रवीत्
अयं तु मां वारयते धर्मराजो युधिष्ठिरः। इत्युक्त्वा क्रोधताम्राक्षो धनुरादाय वीर्यवान्
सव्यसाची समुत्पत्य ताञ्छत्रून्समुदैक्षत। उद्यतं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः
युगान्ते सर्वलोकांस्तु दहन्तमिव पावकम्। वीक्षमाणं धनुष्पामिं हन्तुकामं मुहुर्मुहुः
हन्तुकामं पशून्क्रुद्धं रुद्रं दक्षक्रतौ यथा। तथाभूतं नरं दृष्ट्वा विषेदुस्तत्र मानवाः
धनञ्जयस्यव वीर्यज्ञा निराशा जीविते तदा। मृतभूता भवन्सर्वे नेत्रैरनिमिषैरिव
अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः। क्रुद्धं तदाऽर्जुनं दृष्ट्वा पृथिवी च चचाल ह
खेचराणि च भूतानि वित्रेसुर्वै भयार्दिताः। नादित्यो विरराजाथ नापि वान्ति च मारुताः
न चन्द्रो न च नक्षत्रं द्यौर्दिशोन न विभान्ति ह। सर्वमाविद्धमभवज्जगत्स्थावरजङ्गमम्
उत्पतन्स वभौ पार्तो दिवाकर इवाम्बरे
पार्थं दृष्ट्वा क्रुद्धं कालान्तकयमोपमम्। भीमसेनो मुदा युक्तो युद्धायैव मनो दधे
पाञ्चाली च ददर्शाथ सुसङ्क्रुद्धं धनञ्जयम्। हन्तुकामं रिपून्मर्वान्सुपर्णमिव पन्नगान्
दुष्प्रेक्षः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्। तं दृष्ट्वा तेजसा युक्तं विव्यधुः पुरवासिनः
उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनञ्जयम्। जग्राह स तदा राजा पुरुहूतो यथा हरिम्
उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः। मा पार्थ साहसं कार्षीर्मा विनाशं गमेद्यशः
अहमेतान्पापकृतो द्यूतज्ञान्दग्धुमुत्सहे। कन्त्त्वसत्यगतिं दृष्ट्वा क्रोधो नाशमुपैति मे
त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव
एवमुक्तस्तदा राज्ञा पाण्डवोऽथ धनञ्जयः। क्रोधं संशमयन्पार्थो धार्तराष्ट्रं प्रति स्थितः
तस्मिन्वीरे प्रशान्ते तु पाण्डवे फल्गुने पुनः। सुसम्प्रहृष्टमभवज्जगत्स्थावरजङ्गमम्
वारितं च तथा दृष्ट्वा भ्रात्रा पार्थं वृकोदरः। बभूव विमना राजन्नभून्निश्शब्दमत्र वै
ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे। तं रासभाः प्रत्यभाषन्त राज- न्समन्ततः पक्षिणश्चैव रौद्राः
तं वै शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च। भीष्मो द्रोणो गौतमश्चापि विद्वान् स्वस्तिस्वस्तीत्यपि चैवाहुरुच्चैः
ततो गान्धारी विदुरश्चापि विद्वां- स्तमुत्पातं घोरमालक्ष्य राज्ञे। निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे
हतोऽसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुङ्गवानाम्। स्त्रियं समाभाषसि दुर्विनीत विशेषतो द्रौपदीं धर्मपत्नीम्
एवमुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात्। कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं
वरं वृणीष्व पाञ्चालि मत्तो यदभिवाञ्छसि
ददासि चेद्वरं मह्यंवृणोमि भरतर्षभ। सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः