अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः। शकुनिं चाक्षकितवं सहदेवो हनिष्यति
दुश्शासनस्य रुधिरं पास्यामि मृगराडिव
भीमसेन न ते सन्ति येषां वैरं त्वया सह। नन्दा गृहेषु न बुद्ध्यन्ते महद्भयम्
नैव वाचा व्यवसितं भीम विज्ञायते सताम्। यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम्
असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम्। भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः। ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः। तान्स्म सर्वञ्छितैर्बाणैर्नेताऽस्मि यमसादनम्
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः। शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि
उत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः। प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्
सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत्। क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः
यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर। नैते ह्यक्षाः शिता वाणास्त्वयैते समरे धृताः
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्। कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः। यदि स्थस्यासि सङ्ग्रामे क्षत्रधर्मेण सौबल
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते। दर्शनीयतमो नॄणामिदं वचनमब्रवीत्
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः। यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः
धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षून्कालचोदितान्। दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम्
उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम्। हन्ताऽहमस्मि समरे मम शत्रुं नराधमम्
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्। नर्धार्तराष्टां पृथिवीं कर्तास्मि नचिरादिवा
यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे। तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति
यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान्। तस्मादुधिरमेवास्य पास्यते वै वृकोदरः
इमं च पापिष्ठमतिं कर्णं समुतबान्धवम्। सामात्यं सपरीवारं हनिष्यति धनञ्जयः
क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम्। सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम्
एवमुक्ते तु वचने द्रौपद्या धर्मशीलया। ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापततम्
तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः। अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै
द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनञ्जयः। स तदा क्रोधताम्राक्ष इदं वचनमब्रवीत्
अयं तु मां वारयते धर्मराजो युधिष्ठिरः। इत्युक्त्वा क्रोधताम्राक्षो धनुरादाय वीर्यवान्
सव्यसाची समुत्पत्य ताञ्छत्रून्समुदैक्षत। उद्यतं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः
युगान्ते सर्वलोकांस्तु दहन्तमिव पावकम्। वीक्षमाणं धनुष्पामिं हन्तुकामं मुहुर्मुहुः
हन्तुकामं पशून्क्रुद्धं रुद्रं दक्षक्रतौ यथा। तथाभूतं नरं दृष्ट्वा विषेदुस्तत्र मानवाः
धनञ्जयस्यव वीर्यज्ञा निराशा जीविते तदा। मृतभूता भवन्सर्वे नेत्रैरनिमिषैरिव
अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः। क्रुद्धं तदाऽर्जुनं दृष्ट्वा पृथिवी च चचाल ह