एवमुक्त्वा तु कौन्येयमपोह्य वसनं स्वकम्। स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः
कदलीदण्डसदृशं सर्वलक्षणसंयुतम्। गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव। द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्
भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते। प्रोवाच राजमध्ये तं सभां विश्रावयन्निव
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः। यद्येतमूरुं गदया न भिन्द्यां ते महाहवे
क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः। वृक्षस्येव विनिश्वेरुः कोटरेभ्यः प्रदह्यतः
परं भयं पश्यत भीमसेना- त्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः। दैवेरितो नूनमयं पुरस्ता- त्परोऽनयो भरतेषूदपादि
अतिद्यूतं कृतमिदं धार्तराष्ट्र यस्मात्स्त्रियं विवदध्वं सभायाम्। योगक्षेमौ नश्यतो वः समग्रौ पापान्मन्त्रान्कुरवो मन्त्रयन्ति
इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत्। इमां चेत्पूर्वं कितवोऽग्लहिष्य- दीशोऽभविष्यदपराजितात्मा
स्वप्ने यथैतद्विजितं धनं स्या- देवं मन्ये यस्य दीव्यत्यनीशः। गान्धारराजस्य वचो निशम्य धर्मादस्मात्कुरवो माऽपयात
भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव। युधिष्ठिरं ते प्रवदन्त्वनीश- मथो दास्यान्मोक्षसे याज्ञसेनि
ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीसुतो धर्मराजो महात्मा। ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव
दुश्शासन निबोधेदं वचनं वै प्रभाषितम्। किमनेन चिरं वीर नयस्व द्रपदात्मजाम्। दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्। साधु कर्ण महाबाहो यथेष्टं क्रियतामिति
ततो दुश्शासनस्तूर्णं द्रुपदस्य सुतां बलात्। प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान्।। ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी
परित्रायस्व मां भीष्ण द्रोण द्रौणे तथा कृप। परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल
धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम्। गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि। पिरत्रायस्व मां भीरुं सुयोधनभयार्दिताम्
त्वमार्ये वीरजननि किं मां पश्यसि यादवीम्। क्लिश्यमानामनार्येण न त्रायसिव वधूं स्वकाम्
यदि लालप्यमानां मां न कश्चित्किञ्चिदब्रवीत्। हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता
न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट्। न चायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम्।। धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता
शृणोमि वाक्यं तव राजपुत्रि नेमे पार्थाः किञ्चिदपि ब्रुवन्ति। सा त्वं प्रियार्थं शृणु वाक्यमेत- द्यदुच्यते पापमतिः कृतघ्नः
सुयोधनः सानुचरः सुदुष्टः सहैव राजा निकृतः सूनुना च यद्येष वाचं महदुच्यमानां न श्रोष्यते पापमतिः सुदुष्टः
इत्येवमुक्त्वा द्रुपदस्य पुत्रीं क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम्
मा क्लिश्यतां वै द्रुपदस्य पुत्रीं मा त्वं चरीं द्रक्ष्यसि राजपुत्र
यद्येवं त्वं महाराज सङ्क्लेशयसि द्रौपदीम्। अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः। गमिष्यति क्षयं पापः पाण्डवक्षयकारणात्
भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च। तस्मान्निवारय सुतं मा विनाशं विचिन्तय
एतच्छुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत्। ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः
अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः। ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः
ऊरौ सन्दर्श्यमाने तु निरीक्ष्य तु सुयोधनम्। वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते
एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलनान्स मानी। राजानुजः संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः