श्रुत्वा तुं तद्वाक्यमनोहरं त- द्धर्षश्चासीत्कौरवाणां सभायाम्। सर्वे चासन्पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः। किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः। भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम्। प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम्
यद्येष गुरुरस्माकं धर्मराजो महामनाः। न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः। मन्यते जितमात्मानं यद्येष विजिता वयम्
न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन्। मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान्
पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव। नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः
धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम्। गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव। धार्तराष्टारानिमान्पापान्निष्पषेयं तलासिभिः
तमुवाच तदा भीष्मो द्रोणो विदुर एव च। क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि
त्रयः किलेमे ह्यधना भवन्ति। दासः पुत्रश्चास्वतन्त्रा च नारी। दासस्य पत्नी त्वधनस्य भद्रे हीनश्वरा दासधनं च सर्वम्
प्रविश्य राज्ञः परिवारं भजस्व तत्ते कार्यं शिष्टमादिश्यतेऽत्र। ईशास्तु सर्वे तव राजपुत्रि भवन्ति वै धार्तराष्ट्रा न पार्थाः
अन्यं वृणीष्व पतिमाशु भामिनि यस्माद्दास्यं न लभसि देवनेन। अवाच्या वै पतिषु कामवृत्ति- र्नित्यं दास्ये विदितं तत्तवास्तु
पराजितो नकुलो भीमसेनो युधिष्ठरः सहदेवार्जुनौ च। दासीभूता त्वं हि वै याज्ञसेनि पराजितास्ते पतयो नैव सन्ति
प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं चैव पार्थटः। पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद्ग्लहेषु
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदाऽर्तरूपः। राजानुगो धर्मपाशानुबद्धो दहन्निवैनं क्रोधसंरक्तदृष्टिः
नाहं कुप्ये सूतपुत्रस्य राज- न्नेष सत्यं दासधर्मः प्रदिष्टः। किं विद्विषो वै मामेवं व्याहरेयु- र्नादेवीस्त्वं यद्यनया नरेन्द्र
भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा। युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम्
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने। प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे
एवमुक्त्वा तु कौन्येयमपोह्य वसनं स्वकम्। स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः
कदलीदण्डसदृशं सर्वलक्षणसंयुतम्। गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव। द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्
भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते। प्रोवाच राजमध्ये तं सभां विश्रावयन्निव
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः। यद्येतमूरुं गदया न भिन्द्यां ते महाहवे
क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः। वृक्षस्येव विनिश्वेरुः कोटरेभ्यः प्रदह्यतः
परं भयं पश्यत भीमसेना- त्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः। दैवेरितो नूनमयं पुरस्ता- त्परोऽनयो भरतेषूदपादि
अतिद्यूतं कृतमिदं धार्तराष्ट्र यस्मात्स्त्रियं विवदध्वं सभायाम्। योगक्षेमौ नश्यतो वः समग्रौ पापान्मन्त्रान्कुरवो मन्त्रयन्ति
इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत्। इमां चेत्पूर्वं कितवोऽग्लहिष्य- दीशोऽभविष्यदपराजितात्मा
स्वप्ने यथैतद्विजितं धनं स्या- देवं मन्ये यस्य दीव्यत्यनीशः। गान्धारराजस्य वचो निशम्य धर्मादस्मात्कुरवो माऽपयात